________________
तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरुच्यते । धर्मरुचिमाह-योऽस्तिकायानां - धर्मादीनां धर्मो - गत्युपष्टम्भादिरस्तिकाय - धर्मस्तं जातावेकवचनं, 'श्रुतधर्मम्' अङ्गप्रविष्टाद्यागमखरूपं 'खलुः' वाक्यालङ्कारे 'चरित्रधर्म वा सामायिकादि, वस्य चार्थत्वात्, 'श्रद्दधाति' तथेति प्रतिपद्यते 'जिनाभिहितं' तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यो, धर्मेषु-पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, | अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । कैः पुनलिंङ्गैरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याह
परमत्थसंथवो वा सुट्ठपरमत्थसेवणा वावि । वावन्नकुदंसणवज्जणा य संमत्तसद्दहणा ॥ २८ ॥ परमाश्च ते तात्त्विकत्वेनार्थाश्चार्यमाणत्वेन परमार्थाः - जीवादयस्तेषु संस्तवो - गुणकीर्त्तनं तत्खरूपं पुनः पुनः परि| भावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षः समुच्चये, तथा सुष्ठु - यथावद्दर्शितया दृष्टा - उप| लब्धाः परमार्था-जीवादयो यैस्ते सुदृष्टपरमार्था - आचार्यादयस्तेषां सेवनं - पर्युपासनम्, इहोत्तरत्र च (प्राकृतत्वात्) सूत्रत्वाच्च स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, 'अपिः' पूर्वापेक्षः समुच्चये, 'वावण्णकुदं| सण' त्ति दर्शनशब्दः प्रत्येकमभिसंबध्यते ततो व्यापन्नं - विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः- यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तं तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः - शाक्यादयस्तेषां च वर्जनं - परिहारो व्यापन्नकु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org