SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५६५॥ पपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः । विस्ताररुचिमाह-'द्रव्याणां' धर्मास्तिकायादीनां 'सर्वभावाः' एक- मोक्षमार्गत्वपृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा-यस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः गत्य०२८ | 'सबाहिति 'सर्वैः' समस्तैः 'नयविधिभिः' नैगमादिभेदैरमुं भावमयममुं वाऽयं नयभेद इच्छतीति, 'चः' समुच्चये स ईग् विस्ताररुचिरिति ज्ञातव्यो, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्-"सद्दहइ जाणति जतो"। क्रियारुचिमाह-दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुतरूपे तथा तपोविनये सत्याः-निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च-अविसंवादनयोगाद्यात्मक समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ?-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः 'खलु' निश्चितं क्रियारुचिः, नामेति प्रकाशं, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यङ्गत्वख्यापनार्थम् । सङ्केपरुचिमाह-अनभिगृहीता-अनङ्गीकृता कुदृष्टिःसौगतमतादिरूपा येन स तथा सङ्केपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलःप्रवचने' सर्वज्ञशासने 'अणभिग्गहिओ य सेसेसु'त्ति अविद्यमानमभीति-आभिमुख्येन गृहीतं ग्रहणं-ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः, |'चः' समुच्चये, अनभिगृहीतश्च के त्याह-'शेषेषु' कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्यवच्छेदार्थमेतत् , अयमाशयः-य उक्तविशेषणः सङ्केपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण: ॥५६५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy