________________
उत्तराध्य.
बृहद्वृत्तिः ॥५६६॥
दर्शनवर्जनं, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, 'चः' समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थ| संस्तवादीनां संभवाद्यभिचारिता, तात्त्विकानामेवैषामिहाधिकृतत्वात् तस्य च तथाविधानामेषामसंभवादिति सूत्रार्थः ॥ इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय सम्प्रति तस्यैव माहात्म्यमुपदर्शयन्निदमाह
नत्थ चरितं मत्तविह्नणं दंसणे उ भइयव्वं । संमत्तचरिताई जुगवं पुव्वं व संमत्तं ॥ २९ ॥ णादंसणिस्स नाणं नाणेण विणा न हुंति चरणगुणा ।
अगुणिस्स नत्थि मुक्खो नत्थि अमुक्खस्स निव्वाणं ॥ ३० ॥
'नास्ति' न विद्यते उपलक्षणत्वान्नासीन्न च भविष्यति, किं तत् ? - चारित्रं, कीदृक् ? - 'सम्यक्त्वविहीनं' दर्शनेन विरहितं किमुक्तं भवति ? - यावन्न सम्यक्त्वोत्पादो न तावचारित्रं, किमेवं दर्शनमपि चारित्रे नियतमित्याह - 'दर्शने तु' सम्यक्त्वे पुनः सति भक्तव्यं भवति वा न वा, प्रक्रमाचारित्रम्, अतो न तत्तत्र नियतं किमित्येवमत आह- सम्यक्त्वचारित्रे 'युगपद्' एककालमुत्पद्येते इति शेषः । 'पुवं व'त्ति पूर्व चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्य - क्त्वे न चारित्रमिति तद्दर्शने भाज्यमुच्यते । अन्यच्च 'नादर्शनिनः' दर्शनविरहितस्य 'ज्ञान' मिति सम्यग्ज्ञानं 'ज्ञानेन
Jain Education International
For Personal & Private Use Only
मोक्षमार्ग
गत्य० २८
॥५६६॥
www.jainelibrary.org