________________
*
*-
*-*-*-
सङ्ख्यैवाभिधेया स्यात् , तथा च वक्ष्यति-"जीवा चेव अजीवा य, एस लोगे वियाहिए"त्ति, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽनन्तमेव स्यात् । यद्यमी नव तथ्यास्ततः किमित्याह-'तथ्यानां तु भावानाम् अनन्तरोदितजीवादिखरूपाणां 'सद्भावे' सद्भावविषयं, किमुक्तं भवति ?-एतदवितथसत्ताभिधायकम् 'उपदेशनं' गुर्वादिसम्बन्धिनमुपदेशं 'भावेन' अन्तःकरणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य सम्यग्भावः सम्यक्त्वं दर्शन मितियावत् 'तदिति भावश्रद्धानं विशेषेणाख्यातं तीर्थकृदादिभिरिति गम्यते,पठन्ति च-'सम्भावो(वेणो)वएसणे।भावेण उ सद्दहणा सम्मत्तं होति आहिअं' 'सदहणे'ति सूत्रत्वात् श्रद्धानं सम्यक्त्वं भवत्याख्यातं, तच श्रधात्यनेन जीवादितत्त्वमिति श्रद्धानंसम्यक्त्वमोहनीयकर्माणुक्षयक्षयोप(शमोप) शमसमुत्थात्मपरिणामरूपम् , उक्तं हि-से य समत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ति"त्ति, अवश्यं हि स कश्चिदात्मनः परिणामोऽस्ति येन सत्यपि जीवादिखरूपावबोधे कस्यचिदेव सम्यक् प्रतिपत्तिर्भवति न पुनः सर्वस्य, यथा हिं| सत्यपि दर्शने कश्चित् शङ्ख श्वेतिमानं प्रतिपद्यते अन्यस्त्वन्यथाभावमिति तत्र कारणविशेषोऽनुमीयते, एवमिहापि, ततश्च जीवादिखरूपपरिज्ञानस्य सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वं, न तु ज्ञानखरूपमेव, अत एव हि ज्ञानादावरणभेदो विषयभेदः कारणभेदो ज्ञानकारणत्वं च सम्यक्त्वस्य श्रुतकेवलिनोक्तं, यत्तु 'तत्त्वार्थश्रद्धानं - १ तच्च सम्यक्त्वं प्रशस्तसम्यक्त्वमोहनीयकर्माणुवेदनोपशमक्षयसमुत्थः प्रशमसंवेगादि लिङ्गः शुभ आत्मपरिणामः प्रज्ञप्तः ।
*
*
*
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org