________________
उत्तराध्य.
बृहद्वृत्तिः
॥५६२॥
ततोऽवश्यममीषां निवन्धनेन भवितव्यं, तच्च न द्रव्यमेव, तस्य सदाऽवस्थितत्वेन प्रतिनियतकालैकत्वादिप्रत्यया- मोक्षमार्गनुत्पत्तिप्रसङ्गात्, ततश्च यदमीषां कालनियमेनोत्पत्तिनिबन्धनं न तत्पर्यवेभ्यस्तत्तत्परिणतिविशेषरूपेभ्योऽन्यत्,
गत्य०२८ गुणानां तु लक्षणानभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वात् प्रायो विप्रतिपत्त्यविषयत्वाचेति सूत्रार्थः ॥ इत्थं खरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमुपदर्शयितुमाह
जीवा जीवा य बंधो य, पुण्णं पावाऽऽसवो तहा । संवरो निजरा मुक्खो, संतेए तहिया नव ॥१४॥
तहियाणं तु भावाणं, सम्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं ति वियाहियं ॥ १५॥ | 'जीवाः' उक्तलक्षणाः 'अजीवाश्च' धर्मास्तिकायादय उक्तरूपा एव 'बन्धश्च' जीवकर्मणोरत्यन्तसंश्लेषः । पुण्यं-शुभप्रकृतिरूपं पापम्-अशुभं मिथ्यात्वादि आश्रवति-आगच्छत्यनेन कर्मेत्याश्रयः-कर्मोपादानहेतुहिसादिः, पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः, 'तथे ति समुच्चये, संवरणं संवरः-गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा-विपाकात्तपसो वा कर्मपरिसाटः, 'मोक्षः कृत्स्त्रकर्मक्षयात्स्वात्मन्यवस्थानं, 'सन्ति' विद्यन्ते 'एते।
॥५६२॥ अनन्तरोक्ताः 'तथ्याः' अवितथा निरुपचरितवृत्तयो, न तु सुगतसाङ्खयोलूकादिकल्पितपदार्थवद्विचाराक्षमाः, यथा । चैतदेवं तथा सूत्रकृन्नाम्नि द्वितीयाणे प्रपञ्चितमिति तत एवावधार्यम् , इह तु ग्रन्थगौरवभयानोच्यते, 'नवे'ति नवसङ्ख्याः, मध्यमप्रस्थानापेक्षया चैतद्, अन्यथा सङ्केपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवात् द्वित्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org