________________
उक्तं हि-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम्। न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥" एवं छायाऽऽतपयोरपि पौगलिकत्वं वस्तुत्वं च भावनीयं, तथा स्पर्शनग्राह्यत्वाच्चानयोः पौद्गलिकत्वं, तथाहिछायायाः शैत्यमातपस्य चोष्णत्वं प्रतिप्राणि प्रतीतमेवेति, अतश्च यत्कैश्चिदुच्यते-शब्दोऽम्बरगुण इत्यादि, तदपास्तं भवति, उक्तञ्च-"अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः।छायाऽऽतपस्तमः शब्दभावेन परिणामिनः॥१॥” इत्या वर्णादीनां च पौगलिकत्वं सुप्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ अनेन द्रव्यलक्षणमुक्तं, पर्यायलक्षणमाह
एगत्तं च पुहुत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥ एकस्य भावः एकत्वं-भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्यपरिणतिरूपं, चशब्द उत्तरापेक्षया समुच्चये,पृथग्भावः पृथक्त्वम्-अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, चः' सर्वत्र प्राग्वत् ,संख्यानं सङ्ख्या-यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं-परिमण्डलोऽयमित्यादिबुद्धिनिबन्धनम् , एवेति पूरणे, 'संयोगाः' अयमङ्गुल्योः संयोग इत्यादिव्यपदेशहेतवः, 'विभागाश्च अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, चशब्दोऽनुक्तनवपुराणत्वादिपर्यायोपलक्षकः, 'पर्यवाणाम् उक्तनिरुक्तानां, 'तुः' पूरणे 'लक्षणम्' असाधारणरूपम् , अयमभिप्रायः-यः कश्चिदस्खलितप्रत्ययः स सर्वः सनिवन्धनो, यथा घटादिप्रत्ययः, अस्खलितप्रत्ययाश्चामी एकोऽयमित्यादिप्रत्ययाः,
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org