SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ह-'या सेति प्रज्ञापकः शिष्यान् प्रत्येवमाह-या सा भवतामस्माकं च प्रतीता, प्रकर्षेण ज्ञायते वस्तु सतत्त्वमनयेति ।। प्रज्ञा-हेयोपादेयविवेचिका बुद्धिः सा विद्यतेऽस्यासौ प्रज्ञावान् , 'अतिशायने मतुप्' अतिशयश्चास्या हेयोपादेययोः । है हानोपादाननिबन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्षिप्तत्वात् यदिवा निश्चयनयमतेन क्रियारहिता प्रज्ञा ऽप्यप्रज्ञैवेति प्रज्ञयैव क्रियाऽऽक्षिप्यते ततः प्रज्ञावान् ज्ञानक्रियावानित्युक्तं भवति, तस्य प्रज्ञावतः स्थीयतेऽनयाऽर्थात् है देवभव इति स्थितिः-देवायुः, अधिकृतत्वात् दिव्यकामाश्च, तानि च कीदृशीत्याह-यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते, तद्धेतुभूतानुष्ठानानासेवनेनेति भावः, पाठान्तरतो 'हार-3 यन्ति वा,' के ते ?-दुष्टा-विपर्ययादिदोषदुष्टत्वेन मेधा-वस्तुखरूपावधारणशक्तिरेषां ते दुर्मेधसः, विषयैर्जिता जन्तव है इति गम्यते, कदा पुनस्तानि दुर्मेधसो विषयैर्जीयन्त इत्याह-ऊने वर्षशतायुषि, अनेनायुपोऽल्पत्वात् मनुष्यकामानामप्यल्पतामाह, यदिवा प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन् , अस्मिंस्तु संक्षिप्तायुष्येकदा है हारितानि हारितान्येव, भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इतीत्थमुपन्यासः, अयं चात्र । भावार्थः-अल्पं मनुष्याणामायुर्विषयाश्चेति काकण्याम्रफलोपमाः, देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्र१ भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संवन्धेऽस्ति विवक्षायां, भवन्ति मतुबादयः॥ १॥ इत्युक्तेः JHarjainelibrary.org Jain Educatio n For Personal & Private Use Only
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy