________________
उत्तराध्य.
बृहद्धृत्तिः
॥२७५॥
व्याख्या-आसनं शयनं यानमिति प्राग्वत् , नवरं भुक्त्वेति सम्बन्धनीयं, 'वित्ते'त्ति वित्तं द्रव्यं, 'कामान्' मनो- औरभ्रीज्ञशब्दादीन् 'भुक्त्वा' उपभुज्य,दुःखेनात्मनः परेषां च दुःखकरणेन सुष्टु-आदरातिशयेनाहृतम्-उपार्जितं दुःखाहृतं,यद्वा ।
याध्य.७ प्राकृतत्वात् दुःखेन संहियते-मील्यते स्मेति दुःसंहृतं 'धनं' द्रव्यं हित्वा' आसनाद्युपभोगेन द्यूताद्यसद्वययेन च त्यक्त्वा, तथा च मिथ्यात्वादिकर्मबन्धुहेतुसम्भवाद् 'बहु' प्रभूतं 'सञ्चित्य' उपाय॑ रजः' अष्टप्रकार कर्म, ततः किमित्याह'ततोत्ति ततो रजःसञ्चयात् तको वा सञ्चितरजाः, कर्मणा गुरुरिव गुरुः अधोनरकगामितया कर्मगुरुः, 'जन्तुः' । प्राणी 'प्रत्युत्पन्नं' वर्तमानं तस्मिन्परायणः-तन्निष्ठः प्रत्युत्पन्नपरायणः, एतावानेव लोकोऽयं,यावानिन्द्रियगोचरः' इति । नास्तिकमतानुसारितया परलोकनिरपेक्ष इतियावत् , 'अएव'त्ति अजः-पशुः, स चेह प्रक्रमादुरभ्रस्तद्वत् 'आगयाएसे'त्ति प्राकृतत्वादागते-प्राप्ते आदेशे-पाहुणके, एतेन प्रपञ्चितज्ञविनेयानुग्रहायोक्तमेवोरभ्रदृष्टान्तं स्मारयति, किमित्याह'मरणान्ते' प्राणपरित्यागात्मनि, अवसाने शोचति, किमुक्तं भवति ?-यथाऽऽदेशे आगते उरभ्र उक्तनीत्या शोचति, ४ तथाऽयमपि धिङ् मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! क्वेदानी मया गन्तव्यमित्यादिप्रलापतः खिद्यते, अत्यन्तनास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ अनेनैहिकापाय उक्तः, सम्प्रति पारभविकमाह- ॥२७॥ तओ आउ परिक्खीणे, चुतदेहा विहिंसगा। आसुरियं दिसंबाला, गच्छंति अवसा तमं ॥१०॥ व्याख्या-ततः' शोचनानन्तरं 'तको वा' उपार्जितगुरुकर्मा 'आउ'त्ति आयुषि तद्भवसम्बन्धिनि जीविते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org