________________
चः प्राग्वत्, महान् - अपरिमितः आरम्भः - अनेकजन्तूप घातकृयापारः परिग्रहश्च - धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुञ्जानः' अभ्यवहरन्, 'सुरां' मदिरां, 'मांसं पिशितं, 'परिवृढे 'त्ति परिवृढः प्रभुरुपचितमांसशोणिततया तक्रियासमर्थ इतियावत्, अत एव परान् - अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परन्दमः, किंच - अजः - | छागस्तस्य कर्करं - यच्चनकवद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदोदन्तुरमतिपक्कं वा मांसं तद्भोजी वा अत एव 'तुन्दिल: ' जातबृहज्जठरः, चितम् - उपचयप्राप्तं लोहितं - शोणितमस्येति चितलोहितः, शेषधातूपलक्षणमेतत् | 'आयुः' जीवितं, 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्यकर्म्मारम्भितया, कमिव क इव ? इत्याह- 'जहाएसं व | एडए' ति आदेशमिव यथैडकः - उक्तरूपः । इह च 'हिंसे' इत्यादिना सार्धश्लोकेनारम्भ उक्तः, 'भुंजमाणे सुर' मित्यादिना चार्धद्वयेन रसगृद्धिः, 'आयुष्क' मित्यादिना चार्थेन दुर्गतिगमनं, तत्प्रतिपादनाच्चार्थतः प्रत्यपायाभिधानमिति | सूत्रत्रयार्थः ॥ इदानीं यदुक्तम् 'आयुर्नरके काङ्क्षती 'ति, तदनन्तरमसौ किं कुरुत इत्याह – यद्वा साक्षादैहिकापा|यदर्शनायाह
Jain Education International
आसणं सणं जाणं, वित्ते कामाणि भुंजिया । दुस्साहडं धणं हिच्चा, बहुं संचिणिया रयं ॥८॥ ततो कम्मगुरू जंतू, पप्पण्णपरायणे । अएव्व आगया 'कंखे, मरणंतंमि सोयति ॥ ९ ॥
१ आगयाएसेत्ति टीका ।
For Personal & Private Use Only
www.jainelibrary.org