________________
अन्वेषयेदिति सूत्रार्थः ॥ इत्थं प्रसक्तानुप्रसक्त्या संयमखरूपमुक्तं, तदुक्तौ च निर्ग्रन्थखरूपं, सम्प्रत्यत्रैवादरोत्पादनार्थमाह
एवं से उयाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे ।
अरहा णायपुत्ते भयवं वेसालीए वियाहिए ॥१९॥ त्तिबेमि ॥ व्याख्या-'एवम्' अमुना प्रकारेण 'से' इति भगवान् 'उदाहु'त्ति उदाहृतवान् 'अनुत्तरज्ञानी' सर्वोत्कृष्टज्ञानवान् । ननु चानुत्तरज्ञानीति मत्वर्थीयेन न भवितव्यं, बहुव्रीहिणैव तदर्थस्योक्तत्वात् , सत्यम् , अनुत्तरज्ञानशब्दोऽयं गौरखरशब्दवत् संज्ञाप्रकार एव, केवलज्ञानवाचकत्वात् अस्य, ततो गौरखरेवदरण्यमित्यादिवन्न दोषः, नास्योत्तरमस्तीत्यनुत्तरं तथा पश्यतीत्यनुत्तरदर्शी, सामान्यविशेषग्राहितया च ज्ञानदर्शनयोर्भेदः, यत उक्तम्-"ज सामण्णग्गहणं दसणमेयं विसेसियं नाणं"ति, अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः। ननु प्रागुक्ताभ्यां विशेषणाभ्यामस्वार्थस्योक्तत्वात् कथं न पौनरुक्त्यम् , उच्यते, अस्यान्याभिप्रायत्वात् , अत्र हि अनुत्तरज्ञान्यनुत्तरदर्शीति भेदाभिधानेन ज्ञानदर्शनयोभिन्नकालमाह, ततश्च मा भूदुपयोगवल्लब्धिद्वयमपि भिन्नकालभावीति व्यामोह इत्युपदिश्यते ज्ञानदर्शनधरः, अर्हति देवादिभ्यः पूजामित्यर्हन् , स चार्थात्तीर्थकृत् , ज्ञातः-उदा१ यत्सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम् ॥ १॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org