________________
उत्तराध्य.
बृहद्वृत्तिः
॥२६९॥
पतन्तं त्रायत इति पत्रं-पक्षसञ्चयं 'समादाय' गृहीत्वा व्रजति, एवं भिक्षुरपि 'पत्ते'त्ति पात्रमुपलक्षणत्वाच्छेषोप- क्षुल्लकनिकरणं चादाय परिव्रजेदिति सम्बन्धः, कीडग् ?-'निरपेक्षो' निरभिलाषः, तस्य वा विनाशादौ शोकाकरणतो निरपेक्षो-निरभिष्वङ्गा, तथा च प्रतिदिनमसंयमपलिमन्थभीरुतया पात्राद्युपकरणसन्निधिकरणेऽपि न दोष इत्यर्थः,
ग्रन्थीयम्. अथवा यदि लेपमात्रयाऽपि सन्निधिं न कुर्वीत कथमागामिनि दिने भोक्तव्यमित्याह-पक्षीव निरपेक्षः, पात्रं पतद्हादिभाजनमा त्तन्नियोगं च समादाय व्रजेद्-भिक्षार्थ पर्यटेद्, इदमुक्तं भवति-मधुकरवृत्त्या हि तस्य निवेहणं, तत्किं तस्य सन्निधिना ? इति सूत्रार्थः ॥ सम्प्रति यदुक्तं 'कृतं लब्ध्वा भक्षयेदिति, तत्र कथं तल्लाभ इति तदुपायमाह-13 यद्वा-यदुक्तं 'निरपेक्षः परिव्रजेदिति तदभिव्यक्तीकर्तुमाह
एसणासमिओ लजू, गामे अनियओचरे । अप्पमत्तो पमत्तेहिं, पिंडवातं गवेसए ॥१७॥ | व्याख्या-एषणायाम्-उत्पादनग्रहणग्रासविषयायां सम्यगितः-स्थितः समितः एषणासमितः, प्राधान्याञ्च इहैषणाया एवोपादानं, प्रायस्तद्भावे ईर्याभाषादिसमितिसम्भव इति ज्ञापनार्थ वा, अनेन निरपेक्षत्वमुक्तं, 'लजूति र लजा-संयमस्तापयोगानन्यतया यतिरपि तथोक्तः, आर्षत्वाचैवं निर्देशः, ग्रामे उपलक्षणत्वान्नगरादौ च 'अनियतः ॥२६९॥ अनियतवृत्तिः 'चरेद्' विहरेत् , अनेनापि निरपेक्षतैवोक्ता । चरंश्च किं कुर्यादित्याह-'अप्रमत्तः' प्रमादरहितः सन् पमत्तेहिंति प्रम्मत्तेभ्यो गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, 'पिण्डपातं' भिक्षां 'गवेषयेद्'
For Personal & Private Use Only
Jain Education Theraronal
www.jainelibrary.org