________________
क्षुल्लकनि
उत्तराध्य.
बहिया उहुमायाय, नावकखे कयाइवि । पुवकम्मक्खयहाए, इमं देहमुदाहरे ॥१४॥
व्याख्या-बहिय'त्ति बहिः, कोऽर्थः १-बहिर्भूतं भवादिति गम्यते, ऊर्ध्व सर्वोपरिस्थितम् अर्थान्मोक्षमादायबृहद्वृत्तिः | गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य बुद्धया सम्प्रधार्येतियावत् , अथवा बहिः-आत्मनो बहिर्भूतं धनधान्यादि ग्रन्थीयम्. ॥२६॥ ऊर्ध्वम्-अपवर्गमादाय-गृहीत्वा, हेयत्वेनोपादेयतया च ज्ञात्वेतियावत् , 'नावकाङ्क्षत्' विषयादिकं नाभिलषेत्, न ।
क्वचिदभिष्वङ्गं कुर्वीतेति तात्पर्य, 'कदाचिदपि' उपसर्गपरीषहाकुलिततायामपि, आस्तामन्यदा, एवं सति शरीरधारणमप्ययुक्तमेव, एतद्धारणे सत्याकाङ्क्षासम्भवात् , तस्यापि चात्मनो बहिर्भूतत्वात् अत आह-पुवेत्याद्यर्द्ध, पूर्व-पूर्वकालभावि तच तत्कर्म च पूर्वकर्म तस्य क्षयः तदर्थमिमं-प्रत्यक्षं 'देहं' शरीरं 'समुद्धरेद्' उचिताहारादिभोगतः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात् , तत्पाते हि भवान्तरोत्पत्तावविरतिरपि स्यात् , उक्तं च-"सर्वत्थ संजमं संजसातो अप्पाणमेव रक्खेजा। मुचति अतिवायातो पुणो विसोही ण याविरती ॥१॥" ततः शरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ यथा च देहपालनेऽपि नाभिष्वङ्गसम्भवः तथा दर्शयितुमाह
विविच्च कम्मणो हेउ, कालखी परिवए ।मायं पिंडस्स पाणस्स, कडं लडूण भक्खए ॥१५॥ ___ व्याख्या-विविच्य' पृथक्कृत्य 'कर्मणो' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्
| ॥२६॥ १ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्न चाविरतिः ॥ १ ॥
Join Education Interational
For Personal & Private Use Only
www.jainelibrary.org