SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ विदित्वा दुःखाद्विमुक्तिरितिवादिन एवेति भावः, 'ते' इति ये अप्रत्याख्याय पापमित्यादिवादिनो 'दुःखसम्भवाः' इहान्यजन्मनि च दुःखभाजनं इति सूत्रार्थः ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वखमाह___ आवण्णा दीहमहाणं, संसारंमि अणंतए । तम्हा सव्वदिसं पस्सं, अप्पमत्तो परिव्वए ॥१३॥ व्याख्या-'आपन्नाः'प्राप्ताः 'दीर्घम्' अनाद्यनन्तमध्वानमिवाध्वानम्-उत्पत्तिप्रलयरूपं, अन्यान्यभवभ्रमणेनै| कत्रावस्थितेरभावात् , क ?-'संसारे नरकादिगतिचतुष्टयात्मके 'अनन्तके' अविद्यमानान्ते, अपर्यवसितानन्तका-2 यिकाद्युपलक्षितत्वेनेति गर्भः, 'तम्ह'त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् 'सबदिसं'ति सर्वदिशः-प्रस्तावादशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः, उक्तं च-पुढवि जलजलणवाया मूला खंधग्गपोरबीया य।। बितिचउपणिदितिरिया य णारया देवसंघाया ॥१॥ संम्मुच्छिमकम्माकम्मभूमिगणरा तहंतरद्दीवा। भावदिसा दिस्सइ ४ जं संसारी णियममेयाहि ॥२॥” 'पश्यन् ' अवलोकयन् 'अप्रमत्तः' प्रमादविरहितः, यथैषामेकेन्द्रियादीनां विराधना न भवति तथा 'परिव्रजेः' संयमाध्वनि यायाः, यद्वा-संसारापन्नानां सर्वदिशः पश्य, दृष्ट्वा चाप्रमत्तो-निद्रा-2 दिप्रमादपरिहारतो यथैतासु न पर्यटसि तथा परिव्रजेः सुशिष्येति सूत्रार्थः ॥ यथा चाप्रमत्तेन परिवजितव्यं तथा दर्शयितुमाह १ पृथ्वी जलज्वलनवाता मूलानि स्कन्धानपर्वबीजानि च । द्वित्रिचतुष्पञ्चेन्द्रियतिर्यञ्चश्च नारका देवसंघाताः ॥१॥ संमूछिमकर्माकर्मभू| मिगनरास्तथाऽऽन्तरद्वीपाः । भावदिशः दिश्यते यत्संसारी नियमादेताभिः ॥ २॥ in Education For Personal & Private Use Only www.janelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy