________________
उत्तराध्य.
बृहद्वत्तिः
॥२६७॥
विषण्णा-विषादं गताः पापकर्मभिः-पापानुष्ठानैः यथा कथमेवमनुष्ठायिनो वयं भविष्याम इति, पठन्ति च-विसन्ना क्षुल्लकनिपावकिच्चेहिंति तथैव, कुतस्त एवंविधा इत्याह-'बाला' रागद्वेपाकुलिताः पण्डितमात्मानं मन्यन्ते इत्येवंशीलाः|४
ग्रन्थीयम् पण्डितमानिनः, ये हि बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुः तदुपदेशतश्च तानि परिहरेयुः न तु विषण्णा एवासीरन् , ये तु बालाः पण्डितमानिनश्च ते खयमजानाना अपि जानानमन्यमात्मन्यभिमानतोऽनुपासमाना एवंविधा एव भवन्तीति सूत्रार्थः ॥ साम्प्रतं सामान्येनैव मुक्तिपथपरिपन्थिनां दोषदर्शनायाह| जे केइ सरीरे सत्ता, वण्णे रूवे यं सव्वसो । मणसा कायवकेणं, सब्वे ते दुक्खसंभवा ॥१२॥ | व्याख्या-ये केचित् 'शरीरे ' शरीरविषये 'सक्ता' बद्धाग्रहाः, व ? इत्याह-'वणे' सुस्निग्धगौरत्वादिके 'रूपे[2] च' सुसंस्थानतायां, चशब्दात् स्पर्शादिषु, वस्त्राद्यभिष्वङ्गोपलक्षणं चैतत् , 'सबसो'त्ति सूत्रत्वात् सर्वथा-सर्वैः स्वयंकरणकारणादिभिः प्रकारैः, मनसा कथं वर्णादिमन्तो वयं भविष्याम ? इत्यभिसन्धिना, वचसा रसायनादिप्रश्ना-MIR६७॥ त्मकेन, चशब्दात् कायेन च रसायनाडुपयोगेन, एवेति पूरणे, पठ्यते च–'कायवक्केणं'ति कायश्च-शरीरं वाक्यं च-18 वचनं कायवाक्यं तेन, 'सर्वे' निरवशेषा गुरुपादुकातो मुक्तिः नास्ति वा मुक्तिरित्यादिवादिनोऽपि न केवलमार्यादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org