________________
भणंता अकरिता य, बंधमोक्खपइण्णिणो। वायाविरियमेत्तेणं, समासासेंति अप्पगं ॥१०॥ व्याख्या-भणन्तः' प्रतिपादयन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च' मुक्त्युपायमनुष्ठानं, बन्धमोक्षौउक्तरूपौ तयोः प्रतिज्ञा-अभ्युपगमः तद्वन्तः, सूत्रत्वाचेना निर्देश, अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एव । केवलं, न तु तथाऽनुष्ठायिनः, वाचि वीर्यम्-आत्मशक्तिर्वाग्वीय वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन 'समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामिन इति खास्थ्यं प्रापयन्ति, कम् ?-आत्मानमिति सूत्रार्थः॥ यथा चैतन्न चारु तथा खत एवाह
न चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहि, बाला पंडियमाणिणो ॥११॥ | व्याख्या-'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' रक्षति, पापेभ्य इति गम्यते, केत्याह-भाष्यत इति भाषा-वचनात्मिका, स्यादेतत्-अचिन्त्यो हि मणिमन्त्रमहौषधीनां प्रभाव इत्यघोरादिमत्रात्मिका वाक त्राणाय भविष्यतीत्याह, कुतो ? विदन्त्यनया तत्त्वमिति विद्या-विचित्रमत्रा
त्मिका तस्या अनुशासनं-शिक्षणं विद्यानुशासनं त्रायते पापाद्भवाद्वा ?, न कुतोऽपि, तन्मात्रादेव मुक्तो शेषानुष्ठान|४| वैयर्थ्यप्रसङ्गादिति भावः। अत एव ये तदपि त्राणायेति वदन्ति ते यादृशास्तदेवाह-विविधम्-अनेकप्रकारं सन्ना
मना विषण्णाः , केषु ?-'पावकम्महि ति पापकर्मसु पापहेतप हिंसाधनष्ठानेष. सततं तत्कारितयेति भावः, यद्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org