________________
क्षुल्लकनि
ग्रेन्थीयम्.
उत्तराध्य.
कम्मं पुरेकम्मं, सिया तत्थ ण कप्पइ । एयमझु ण भुंजंति, णिग्गंथा गिहिभायणे ॥१॥” इतिसूत्रार्थः ॥ एवं
पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहबृहद्धृत्तिः इहमेगे उ मन्नति, अप्पचक्खाय पावगं । आयरियं विदित्ता णं, सव्वदुक्खा विमुच्चइ ॥९॥ ॥२६॥
___ व्याख्या-'इहे'त्यस्मिन् जगति मुक्तिमार्गविचारे वा 'एके' केचन कपिलादिमतानुसारिणः 'सुः' पुनरर्थे 'मन्यन्ते' अभ्युपगच्छन्ति, उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय' अनिराकृत्य 'पापकं' प्राणातिपातादिविरति-| मकृत्वैव 'आयरियंति सूत्रत्वात् आराद्यातं सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तद् 'विदित्वा' ज्ञात्वा 'सर्वदुःखेभ्य'
आध्यात्मिकाधिभौतिकाधिदैविकलक्षणेभ्यः खपरिभाषया शारीरमानसेभ्यो वा 'मुच्यते' पृथग् भवति, तथा चाह8 “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि, मुच्यते नात्र संशयः ॥१॥” यद्वाऽऽचरणमाचरितं तत्तक्रियाकलापः, पाठान्तरतश्च–'आचारिकं' निजनिजाचारभवमनुष्ठानमेव, तद्विदित्वा-खसंवेदनतोऽनुभूय सर्वदुःखाद्विमुच्यते, एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गं, न चैतच्चारु, न हि रोगिण इवौषधादिपरिज्ञानतो भावरोगेभ्यो ज्ञानावरणादिकर्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितां क्रियामननुष्ठाय मुक्तिः ॥ ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैवमात्मानं स्वस्थयन्ति, तथा चाह१ पश्चात्कर्म पुरःकर्म स्यात्तत्र न कल्पते । एतदर्थ न भुखते, निर्ग्रन्था गृहिभाजने ॥१॥२ अर्थतो युग्मरूपत्वान्नात्र सूत्रार्थ इति,
व सवा एवमग्रेऽपि ।
स
णादिकर्मभ्यो महानता
तथा चाह-
भाजने ॥१॥२
॥२६६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org