________________
* EXICROMANCIESEX
कर्मणि ल्युत्, आषत्वादादानीयं वा, नरककारणत्वान्नरकं दृष्ट्वा, किमित्याह–'नाददीत' न गृह्णीत न खीकुर्यादितियावत् , 'तणामवि'त्ति तृणमपि, आस्तां रजतरूप्यादि, कथं तर्हि प्राणधारणमित्याह-दोगुंछी'त्याद्यध, जुगुप्सते | |आत्मानमाहारं विना धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः इति आत्मसम्बन्धिनि पात्रे-भाजने प्राप्ते वा भोजनसमय इति शेषः, 'दत्त' निसृष्टं, गृहस्थैरिति गम्यते, 'भुंजेज'त्ति भुञ्जीत भोजनम्-आहारं, अनेनाहारस्थापि भावतोऽखीकरणमाह, जुगुप्सिशब्देन तदप्रतिबन्धदर्शनात्, ततश्च परिग्रहाश्रवनिरोध उक्तः, तदेवं तन्म|ध्यपतितस्तद्हणेन गृह्यत' इति न्यायात् मृषावादादत्तादानमैथुनात्मकाश्रवत्रयनिरोध उक्तः, यद्वा 'सत्यमिच्छेदि'ति सत्यशब्देन साक्षात्संयममपि वदता मृषावादनिवृत्तिराक्षिप्ता, तवारेणापि तस्य सत्यत्वात् , आदानमित्यादिना तु साक्षाददत्तादानविरतिरुक्ता, आदानं हि ग्रहणमेव रूढं, तच्चादत्तस्येति गम्यते, तं 'नरकं' नरकहेतुं दृष्ट्वा नाददीत तृणमप्यदत्तमितीहापि गम्यते, 'गवास'मित्यादिना तु परिग्रहावनिरोधः, तन्निरोधाभिधानाच नापरिगृहीता स्त्री भुज्यत इतिकृत्वा मैथुनाश्रवनिरोधोऽप्युक्त एव । नन्वेवं स्वयं त्यक्तगवादिपरिग्रहस्य परकीयं चानाददानस्य है कथं प्राणवृत्तिः?, इत्याह-जुगुप्स्यात्मनः पात्रे दत्तं भुजीत भोजनमिति, पात्रग्रहणं तु व्याख्याद्वयेऽपि मा भूत् |निष्परिग्रहतया पात्रस्याप्यग्रहणमिति कस्यचिद् व्यामोह इति ख्यापनार्थ, तदपरिग्रहे हि तथाविधलब्ध्याद्यभावेन पाणिभोक्तृत्वाभावाहिभाजन एव भोजनं भवेत् , तत्र च बहुदोषसम्भवः, तथा च शय्यम्भवाचार्य:-"पंच्छा
Jain
du
For Personal & Private Use Only
www.jainelibrary.org