________________
उत्तराध्य. व्याख्या-'अब्भत्थंति अध्यात्ममात्मनि यद्वर्तते, यदिवा अध्यात्म-मनः तस्मिंस्तिष्ठत्यध्यात्मस्थं, सूत्रत्वाद्वर्ण- क्षुल्लकनि
लोपः, तचेह प्रस्तावात् सुखादि 'सर्वतः' इष्टसंयोगानिष्टसंप्रयोगादिहेतुभ्यो, जातमिति गम्यते, 'सर्व' निरवशेष 'दृष्ट्वा बृहद्वृत्तिः
ग्रन्थीयम्. प्रियत्वादिखरूपेणावधार्य, तथा 'पाणे'त्ति चस्य गम्यमानत्वात् प्राणांश्च-प्राणिनश्च 'पियादए'त्ति आत्मवत् सुखप्रिय-II ॥२६५॥ त्वेन प्रिया दया-रक्षणं येषां तान् प्रियदयान् , प्रिय आत्मा येषां तान् प्रियात्मकान् वा, दृष्ट्वा इत्यत्रापि सम्बन्धनीयं,
ते ततः किमित्याह-'न हन्यात्' नातिपातयेत् , उपलक्षणत्वान्नापि घातयेत् न वा घ्नन्तं समनुजानीयात् ,प्राणिन इति
जातावेकवचनं, पाठान्तरतश्च-प्राणिनां प्राणान्-इन्द्रियादीन् , कीदृशः सन् ? इत्याह-भयं च उक्तखरूपं, वैरै चप्रद्वेषः भयवैरमिति समाहारस्तस्मादुपरतो निवृत्तः सन् , यदिवा-अध्यात्मस्थशब्दस्याभिप्रेतपर्यायत्वेन रूढत्वादध्यात्मस्थं-यद्यस्याभिमतं, तच सुखमेव, 'सर्वत'इति सर्वाभ्यो दिग्भ्यः सर्वेभ्यो वा मनोऽभिमतशब्दादिभ्यो जातं सर्व शारीरं मानसं च यथा तवेष्टं तथाऽन्येषामपि प्राणिनामित्युपस्कारः, 'दृष्ट्वा' अवधार्य, इहापि चस्य गम्यमानत्वात् प्राणान् प्राणप्राण्यभेदोपचारात् प्रियदयांश्च, दृष्ट्वेत्यत्रापि योज्यते, अन्यत् प्राग्वदिति सूत्रार्थः ॥ इत्थं प्राणातिपातलक्षणाश्रवनिरोधमभिधाय शेषाश्रवनिरोधमाह- .
॥२६५॥ __ आयाणं नरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाते, दिन्नं भुंजेज भोयणं ॥८॥ व्याख्या-आदीयत इत्यादानं-धनधान्यादि “कृत्यल्युटोऽन्यत्रापी"ति (कृत्यल्युटो बहुलम् पा० ३-३-११३)
44CCCCCCCCCES
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org