SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कग्रामोषितोऽयमित्यादिकं, यतो न कश्चिदिह परत्र वा त्राणाय खकर्मणा विलुप्यमानस्य धर्म विनेति भाव इति सूत्रद्वयार्थः॥ अमुमेवार्थ विशेषतोऽनूद्यास्यैव फलमाह गवासं मणिकुंडलं, पसवो दासपोरुसं। सव्वमेयं चइत्ता णं, कामरूवी भविस्ससि ॥५॥ व्याख्या-गावश्चाश्वाश्च गवाश्चं, 'गवाश्वप्रभृतीनि चेति (पा०२-४-११) समाहारः, तत्र गावो-चाहदोहोपलक्षिताः अश्वाः-तुरगाः, पशुत्वेऽप्यनयोः पृथगुपादानं अत्यन्तोपयोगित्वेन प्राधान्यात् , तथा मणयश्च-मरकतादयः कुण्डलानि च-कर्णाभरणानि मणिकुण्डलम् , उपलक्षणं चैतच्छेषालङ्काराणां वर्णादीनां च, पश्यन्ति प्रसूयन्ते वा पशवः-अजैडकादयः, दासाश्च-गृहजातादयः पोरुसंति सूत्रत्वात् पुरुषाणां समूह इत्यर्थः, 'पुरुषाद्वधविकारसमूहे'त्या'|दिना ढकि पौरुषेयं च-पदात्यादिपुरुषसमूहो दासपौरुषेयं, यद्वा 'दासपोरुसं'ति दासपुरुषाणां समूहो दासपौरुषं. पुरुषाद ढक न भवति, ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात् , 'सर्व' निरवशेषं 'एतद्' अनन्तरोक्तं त्यक्त्वा '। हित्वा, संयममनुपाल्येत्यभिप्रायः, किमित्याह-'कामरूपी' अभिलषितरूपविकरणशक्तिमान् भविष्यसि. इहैव वैक्रियकरणाघनेकलब्धियोगात् परत्र च देवभावावाप्तेरिति सूत्रार्थः ॥ पुनः सत्यखरूपमेव विशेषत आह थावरं जंगमं चेव, धणं धणं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाउ मोयणे ॥६॥ अन्भत्थं सवओ सव्वं, दिस्स पाणे पियायए। न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ १ पुरुषाद्वधविकारसमूहतेनकृतेषु इति भाष्यकारप्रयोगात् २ नैषा व्याख्याता प्रयोगात् परत्र च वाह- 'कामरूपी मात, 'सर्व' निरवशेष पाषाणां Jain Education Internal For Personal & Private Use Only villjainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy