SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education | शिबिकादीनि शयनानि च - पल्यङ्कादीनि आसनानि च - सिंहासनादीनि यानशयनासनानि, चः समुच्चये, दास्यःअङ्कपतिताः दासा अपि तथाविधा एव अनयोः समाहारः चः प्राग्वत्, 'कुवियं च'त्ति कुप्यं च - विविधं गृहोपस्करात्मकम् । अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयोगश्चेति द्वौ शेषाश्चाष्टेति दशविधो वाह्यग्रन्थ इति गाथार्थः ॥ | निगमयितुमाह सावज्जगंथमुक्का अभितरबाहिरेण गंथेण । एसा खलु निज्जत्ती खुड्डागनियंठसुत्तस्स ॥ २४३ ॥ व्याख्या - सहावद्येन - दोषेण वर्त्तत इति सावद्यः स चासौ ग्रन्थश्च सावद्यग्रन्थस्तेन मुक्ताः सावद्यग्रन्थमुक्ताः, अनेन च रजोहरणमुखव स्त्रिकावर्षा कल्पादेर्दशविधवाद्यग्रन्थान्तर्गतत्वेऽपि धर्मोपकरणत्वेनानवद्यतयाऽमुक्तावपि निर्ग्रन्थत्वमुक्तम्, एवं च मा भूत्कस्यचिद्यामोहो - बाह्येनैव सावद्यग्रन्थेन मुक्ता इत्याह- आभ्यन्तरबाह्येन ग्रन्थेन, न तु बाह्येनैव, मुक्ता इति शेषः, 'एषा' अनन्तरोक्ता 'खलु' निश्चितं निरिति - निश्चिताऽधिका वा युक्तिरस्यामिति नि| र्युक्तिः - नामनिष्पन्ननिक्षेपनिर्युक्तिरित्यर्थः कस्येत्याह - 'खुड्डागणियंठसुत्तस्स'ति क्षुल्लकनिर्ग्रन्थनामकं सूत्रं तस्येति गाथार्थः ॥ इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तस्य चायमभिसम्बन्धः - इहानन्तरा - ध्ययनसूत्रे 'मुनिः सकाममरणं म्रियते' इत्युक्तं, स च मननान्मुनिरिति ज्ञान्येव, ये त्वज्ञानिनस्ते किमित्याह - जावं विज्ञा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंभि अनंत ॥ १ ॥ For Personal & Private Use Only jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy