SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ त्मानं कर्मणेति ग्रन्थः, तद्वैविध्यमेवाह-बहिर्भवो बाह्योऽभ्यन्तरश्च 'ज्ञातव्यः' अवबोद्धव्यः, तत्र च 'अंतो ति|| अन्तःशब्दोऽधिकरणप्रधानमव्ययं, चः पूरणे, ततश्चान्तरिति मध्ये यो ग्रन्थोऽभ्यन्तर इत्यर्थः, स किमित्याह-चतुदेशविधः' चतुर्दशभेदो ‘दशधा' दशप्रकारः, पुनःशब्दो विशेषद्योतकः, 'बाहिरो'त्ति बायो ग्रन्थ इति गाथार्थः ॥ तत्रान्तरस्य चतुर्दश भेदानाहहै कोहो माणो माया लोभे पिजे तहेव दोसे य । मिच्छत्त वेअअरइ रइ हास सोगे य दुग्गंछा ॥ २४१॥ | व्याख्या-क्रोधः' अप्रीतिलक्षणः, 'मानः' अहमितिप्रत्ययहेतुः, 'माया' खपरव्यामोहोत्पादकं शाठ्यं, 'लोभो । द्रव्याद्यभिकाङ्क्षा, 'प्रेम' प्रियेषु प्रीतिहेतुः, 'तथैवे'त्यान्तरग्रन्थरूप एव, कोऽसौ ?-'दोषश्च' उपशमत्यागात्मको विकारो, द्वेष इत्यर्थः । इह च यद्यपि प्रेम मायालोभरूपं द्वेषश्च क्रोधमानात्मकः तथापि तयोः पृथगुपादानं कथञ्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थ, 'मिथ्यात्वं' तत्त्वार्थाश्रद्धानं, तच्च पडिः स्थानर्भवति, तानि च नास्ति न नित्य इत्यादीनि, तदुक्तम्-"णत्थि ण णिचो ण कुणति कयं ण वेएति णत्थि णेवाणं । णत्थि य मोक्खोवाओ छम्मिच्छतस्स ठाणाई॥१॥” 'वेदः' स्त्रीवेदादिस्त्रिधा, 'अरतिः' संयमेऽप्रीतिः, 'रतिः' असंयमे प्रीतिः, आह च-"इत्थी वेयाईओ तिविहो वेओ य होइ बोद्धयो । अरती य संजमंमी होइ रती संजमे यावि ॥१॥" 'हासो' विस्मयादिषु ४] १ नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणम् । नास्ति च मोक्षोपायः षड् मिथ्यात्वस्य स्थानानि ॥ १॥२ स्त्रीवेदादिकत्रिविधो वेदश्च भवति बोद्धव्यः । अरतिश्च संयमे भवति रतिः असंयमे चापि ॥१॥ ****5455 23 For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy