SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ | कुत एवंविधचिन्तावसरः १, एवं च विदितभगवदाकृतेन सारथिना मोचितेषु सच्चेषु परितोषितोऽसौ यत्कृतवांस्तदाह - 'सो' इत्यादि 'सुत्तकं चे 'ति कटीसूत्रम्, अर्पयतीति योगः, किमेतदेवेत्याह- आभरणानि च सर्वाणि शेषाणीति गम्यते, ततश्च 'मनःपरिणामश्च' अभिप्रायः कृतो निष्क्रमणं प्रतीति गम्यते, 'देवा:' चतुर्निकाया एव 'यथोचितम् ' औचित्यानतिक्रमेण समवतीर्णाः, पाठान्तरतः समवपतिताः, चकाराभ्यां चेह समुच्चयार्थाभ्यामपि तुल्य| कालताया ध्वन्यमानत्वात्तदैवेति गम्यते, 'सर्वर्द्धा' समस्तविभूत्या 'सपरिषदः' बाह्यमध्याभ्यन्तरपर्यत्रयोपेताः 'निष्क्रमणम्' इति प्रक्रमान्निष्क्रमणमहिमानं 'तस्य' इति भगवतोऽरिष्टनेमिनः कर्त्तुं 'जे' इति निपातः पूरणे । 'शिविकारलं' देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, 'ततः' तदनन्तरं 'समारूढः' अध्यासीनः 'निष्क्रम्य' निर्गत्य ' द्वारकातः' द्वारकापुर्याः 'रैवतके' उज्जयन्ते 'स्थितः' गमनान्निवृत्तः । तत्रापि कतरं प्रदेश प्राप्तः स्थित इत्याह – 'उद्यानं ' सहस्राम्रवणनामकं संप्राप्तः, तत्र चावतीर्णः 'सीयातो' त्ति शिविकात ः 'साहस्सीय 'त्ति सहस्रेण प्रधानपुरुषाणामिति | शेषः 'परिवृतः' परिवेष्टितः 'अथे' त्यानन्तर्ये 'निष्क्रामति' श्रामण्यं प्रतिपद्यते 'तुः' पूरणे 'चित्ताहिंति चित्रासु चित्रानाम्नि नक्षत्रे । कथमित्याह – 'सुगन्धिगन्धिकान्' स्वभावत एव सुरभिगन्धीन् ' त्वरितं' शीघ्रं 'मृदुकत्वकुञ्चितान्' कोमलकुटिलान् ' स्वयमेव' आत्मनैव 'लुञ्चति' अपनयति केशान् 'पञ्चाशभिः ' - पञ्चमुष्टिभिः 'समाहितः' समाधिमान्, सर्व सावद्यं ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् । इह तु वन्दिकाचार्यः सत्त्वमोचनसमये Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy