________________
ACCASSACROM
व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो ‘ददाति' यच्छति 'धूयर ति दुहितरम् , उदूढवांश्च तामसौ, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा'मित्यापन्नसत्त्वां परिगृह्य' आदाय खदेशम् 'अथ' अनन्तरं 'प्रस्थितः' चलितः।। तत्र चागच्छतोऽथ पालितस्य गृहिणी 'समुद्रे' जलधौ ‘प्रसूते' गर्भ विमुञ्चति स्मेति शेषः, 'अथे'त्युपन्यासे 'दारक', सुतः तस्मिन्' इति प्रसवने 'जातः' उत्पन्नः समुद्रपाल इति 'नामतो' नामाश्रित्य । क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतश्चम्पायां श्रावको वाणिजः 'घर'ति चस्य गम्यमानत्वाद् गृहं च खकीयं, कृतं च तत्र वर्धापनकादि, संवर्द्धते च |'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः' सुकुमारः। एवं च प्राप्तः कलाग्रहण| योग्यतां द्विसप्ततिकलाश्च शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः' न्यायाभिज्ञः, 'जोवणेण य
अप्फुण्णे'त्ति, चस्य भिन्नक्रमत्वाद्यौवनेन 'आपूर्णश्च' परिपूर्णशरीरश्च, पठ्यते च-'जोवणेण य संपण्णे'त्ति, तत्र च | 'संपन्नः' युक्तोऽत एव 'सुरूपः' सुसंस्थानः 'प्रियदर्शनः' सर्वस्यैवानन्ददाता । परिणयनयोग्यतां च तस्य विज्ञाय |'रूपवती' विशिष्टाकृतिं भायाँ' पत्नीं 'पिता' पालितवणिग 'आनयति' तथाविधकुलादागमयति 'रूपिणीं रूपिणीनाम्नी, परिणायितश्च तामसौ,प्रासादे क्रीडति-रमति तया सह रम्ये' अभिरतिहेतौ देवो दोगुन्दको यथा। अथान्यदा कदाचित् 'प्रासादालोकने' उक्तरूपे स्थितः सन् वधमर्हति वध्यस्तस्य मण्डनानि-रक्तचन्दनकरवीरादीनि तैः शोभा-तत्कालोचितपरभागलक्षणा यस्यासौ वध्यमण्डनशोभाकस्तं 'वध्यं वधाई कञ्चन तथाविधाकार्यकारिणं
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org