________________
RE
अथ समुद्रपालीयं एकविंशमध्ययनम्।
| व्याख्यातं महानिर्ग्रन्थीयं नाम विंशतितममध्ययनम् , इदानीमेकविंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययनेऽनाथत्वमनेकधोक्तम् , इह तु तदालोचनाद्विविक्तचर्ययैव चरितव्यमित्यभिप्रायेण सैवोच्यत इत्यने-18
नाभिसम्बन्धेनायातस्याध्ययनस्य प्राग्वदनुयोगद्वारचतुष्टयं प्ररूप्यं तावद् यावन्नामनिष्पन्ननिक्षेपे समुद्रपालीयमिति है || नामातः समुद्रपालनिक्षेपाभिधानायाह नियुक्तिकृत्
समुद्देण पालिअंमि अ निक्खेवु चउक्कओ दुविह दव। आग० ॥ ४२३ ॥ है समुद्दपालिआऊ वेयंतो भावओ य नायवो । तत्तो समुट्ठिअमिणं समुद्दपालिजमज्झयणं ॥ ४२४ ॥ | गाथाद्वयं प्रतीतार्थमेव,नवरं समुद्रपालनिक्षेपप्रस्तावे यत्समुद्रेण पालित इत्युक्तं तत्समुद्रपाल इत्यत्र समुद्रेण पाल्यते । स्मेति समुद्रपाल इति व्युत्पत्तिख्यापनार्थमिति गाथाद्वयार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिप्पन्ननिक्षेपावसरः, स च सति सूत्र इति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसो सो उ महप्पणो ॥१॥
EASEACESCENCE
Jain EducationIXE
For Personal & Private Use Only
www.jainelibrary.org