________________
|बहु च पुरस्तात्त्वि'ति प्राग्बहुच्प्रत्ययः, ये हि सर्वथा निःसत्त्वास्ते मूलत एव न निम्रन्थमार्ग प्रतिपद्यन्त इत्येवमुच्यते.
कातरा एव बहवः संभवन्तीति बहुशब्दो विशेषणं, 'नराः' पुरुषाः' सीदन्तश्च नात्मानमन्यांश्च रक्षयितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ 'जो पव्वइत्ताणे' त्यादि सूत्राणि सीदनस्यैवानेकधा खरूपानुवादतः || फलदर्शकानि स्पष्टान्येव नवरं 'नो स्पृशति' इति नासेवते 'प्रमादात्' निद्रादेरनिगृहीतः-अविद्यमानविषयनियन्त्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव 'रसेषु' मधुरादिषु 'गृद्धः' गृद्धिमान् वध्यतेऽनेन कर्मेति बन्धनं-रागद्वेषात्मकं 'सेइति सः॥ 'आयुक्तता' दत्तावधानता 'काचिदिति खल्पाऽपि 'आयाणणिक्खेवदुगुंछणाए'त्ति आदाननिक्षेपयोःउपकरणग्रहणन्यासयोर्जुगुप्सनायाम् , इह चोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्थापना जुगु
प्सनोक्ता, स ईदृकू किमित्याह-वीरैर्यातो-गतो वीरयातस्तम् 'अनुयाति' अनुगच्छति, नेति सम्बन्धः, अल्पसहत्त्वतयेति भावः, कं?—'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथम् ॥ तथा च 'चिरमपि' प्रभूतकालमपि मुण्ड एव| मुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि-गृहीतमुक्ततया
चलानि व्रतान्यस्येत्यस्थिरवतः 'तपोनियमेभ्यः' उक्तरूपेभ्यः 'भ्रष्टः' च्युतश्चिरमपि 'अप्पाण'त्ति आत्मानं 'क्लेशयित्वा' लोचादिना बाधयित्वा, आत्मनैवेति गम्यते, न 'पारगः' पर्यन्तगामी भवति 'हुः' वाक्यालङ्कारे 'संपराएत्ति संपरायन्ति-भृशं पर्यटन्त्यस्मिन् जन्तव इति सम्परायः-संसारस्तस्य, सूत्रे च सुव्यत्ययात्सप्तमी ४॥ स चैवं
www.jainelibrary.org
For Personal & Private Use Only
Jain Education Intelles