SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ महानिर्ग उत्तराध्य. रोच्छित्तितो मूलत एव न वेदनासम्भवः स्यादिति भावः ॥ “एवं च चिंतइत्ता णं'ति न केवलमुक्त्वा चिन्तयित्वा 18 चैवं पासुत्तोमित्ति प्रसुप्तोऽस्मि ‘परियटुंतिय'त्ति परिवर्त्तमानायाम्-अतिक्रामन्यां 'ततः' वेदनोपशमानन्तरं 'कल्ल'त्ति बृहद्वृत्तिः न्थीया० कल्यो नीरोगः सन् 'प्रभाते' प्रातः, यद्वा 'कल्ल' इति चिन्तादिनापेक्षया द्वितीयदिने प्रकर्षेण ब्रजितो-गतः प्रत्र॥४७६॥ जितः, कोऽर्थः ?-प्रतिपन्नवाननगारिताम् ॥ तत इति प्रव्रज्याप्रतिपत्तेरहं नाथो जातः-संवृत्तो, योगक्षेमकरणक्षम है इति भावः, 'आत्मनः' स्वस्य 'परस्य वा' अन्यस्य पुरुषादेः सर्वेषां भूतानां-जीवानां त्रसानां स्थावराणां चेति-त्रसस्थावरभेदभिन्नानामिति विंशतिसूत्रावयवार्थः॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः पुरा तुन इत्याह अप्पा नई वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ ३६ ॥ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपहिओ ॥ ३७॥ 'आत्मेति व्यवच्छेदफलत्वाद्वाक्यस्यात्मैव नान्यः कश्चित् , किमित्याह-'नदी' सरित् 'वैतरणी' नरकनद्या नाम, तितो महाऽनर्थहेतुतया नरकनदीव, अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा। तथाऽऽत्मैव कामान्-अभिलाषान् दोग्धि-कामितार्थप्रापकतया प्रपूरयति कामदुधा धेनुविधेनुः,इयं च रूढित उक्ता, एतदुपमत्वं चाभिलाषितवर्गापवर्गावाप्तिहेतुतया, आत्मैव 'मे' मम 'नन्दनं' नन्दननामकं 'वनम्' उद्यानम्, एतदौपम्यं चास्य चित्तप्रल्हत्तिहेतुतया ॥ यथा चैतदेवं तथाऽऽह-आत्मैव 'कर्ता' विधायको दुःखानां सुखानां चेति HOROSCARE ॥४७६॥ Pr Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy