SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 18 ततः पुत्रशोकदुःखार्ता पुत्रशोकदुःखार्दिता वा ॥ तथा 'सग'त्ति लोकरूढितः सौदर्याः खका वा-आत्मीया वा ॥ तथा 'भइणि'त्ति भगिन्यः ॥ अपरं च 'भार्या' पत्नी 'अनुरक्ता' अनुरागवती 'अणुवय'त्ति अन्विति-कुला|नुरूपं व्रतम्-आचारोऽस्या अनुव्रता पतिव्रतेति यावत्, वयोऽनुरूपा वा, पठ्यते च-'अणुत्तरमणुव्वय'त्ति, इह च मकारोऽलाक्षणिकः, अनुत्तरा-अतिप्रधाना 'उर'न्ति 'उरः' वक्षः 'परिषिञ्चति' समन्तात्लावयति ॥ स्नात्यनेनेति नानं-गन्धोदकादि मया ज्ञातमज्ञातं वेत्यनेन सद्भावसारतामाह, पठ्यते च-तारिसं रोगमावण्णे'त्ति, 'तादृशम्' उक्तरूपं रोगम्' अक्षिरोगादिकम् ‘आपन्ने' प्राप्ते मयीति गम्यते, सेति-भार्या बालेव वाला-अभिनवयौवना 'नोपभुङ्क्ते' नासेवते ॥ 'पासाओऽवि ण फिट्टइत्ति, अपिः चशब्दार्थः, मत्पार्थाच नापयाति, सदा सन्निहितैवास्ते, अ-I* नेन तस्या अतिवत्सलत्वमाह ॥'ततः' इति रोगाप्रतिकार्यतानन्तरमहम् ‘एवं' वक्ष्यमाणप्रकारेण 'आहंसु'त्ति उक्तहैवान् , यथा 'दुक्खमा हुत्ति, हु एवकारार्थ, ततो दुःक्षमैव-दुःसहैव पुनः पुनः 'वेदना' उक्तखरूपा रोगव्यथा 'अनु भवितुं' वेदयितुं जे इति निपातः पूरणे ॥ यतश्चैवमतः 'सयं चत्ति चशब्दोऽपिशब्दार्थस्ततः सकृदपि-एकदाऽपि यदि | मुच्येऽहमिति गम्यते, कुतः ?-वेयण'त्ति वेदनायाः 'विउल'त्ति विपुलायाः-विस्तीर्णायाः 'इतः' इत्यनुभूयमानायाः, ततः किमित्याह-क्षान्तः' क्षमावान् 'दान्तः' इन्द्रियनोइन्द्रियदमेन 'पवइए अणगारिय'त्ति, 'प्रव्रजेयं' गृहान्निष्कामेयं ततश्च 'अनगारता" भावभिक्षुतामङ्गीकुर्यामिति शेषः,यद्वा 'प्रव्रजेयं प्रतिपद्येयमनगारितां येन संसा For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy