________________
उत्तराध्य.
बृहद्वृत्तिः
॥४७५॥
अभिमतवस्त्वभिलाषं न केवलं वहित्रिकाद्येवेति भावः 'पीडयति' बाधते, वेदनेति सम्बन्धः, तत्कालापेक्षया च वर्त्तमाननिर्देशः, एवमन्यत्रापि, इन्द्राशनिः - इन्द्रवज्रं तत्समाना- तुल्या अतिदाहोत्पादकत्वादिति भावः 'घोरा' परेषामपि दृश्यमाना भयोत्पादनी 'परमदारुणा' अतीव दुःखोत्पादिका ॥ किं न कश्चित्तां प्रतिकृतवानित्याह- 'उप| स्थिताः' वेदनाप्रतीकारं प्रत्युद्यताः 'मे' मम 'आचार्याः' इति प्राणाचार्या वैद्या इतियावत्, 'विद्यामन्त्रचिकित्सकाः' | विद्यामन्त्राभ्याम् — उक्तरूपाभ्यां व्याधिप्रतिकर्त्तारः 'अद्वितीयाः' अनन्यसाधारणतया तथाविधद्वितीयाभावात्, | 'सत्यकुसल 'त्ति शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशला शास्त्रकुशला वा, पठ्यते च 'नानासत्थत्थ कुसल 'त्ति सुगमं, मन्त्राणि |च-उक्तरूपाणि मूलानि च - ओषधयस्तेषु विशारदाः - विज्ञा मन्त्रमूलविशारदाः ॥ नैवोपस्थानमात्रेणैव ते स्थिताः किन्तु ते मे चिकित्सां कुर्वन्ति 'चाउप्पायं'ति 'चतुष्पदां' भिषग्भैषजातुरप्रतिचारकात्मक चतुर्भा (त्मकभा) गचतुष्टयात्मिकां 'जहाहियं 'ति 'यथाहितं' हितानतिक्रमेण यथाऽधीतं वा-गुरुसम्प्रदायागतवमन विरेचकादिरूपां ततः किमित्याह-न चैवं कुर्वन्तोऽपि 'दुःखाद्' एवंविधरोगजनितादसाताद् 'विमोचयन्ति' विशेषेण मुत्कलयन्ति, एषा दुःखाविमोचना| त्मिका ममानाथता ॥ अन्यच - 'सर्वसारमपि ' निःशेषप्रधानं वस्तुरूपं 'दिजाहि' त्ति दद्यात् न त्वेवमादरवानपि दुःखात् | 'विमोचयंति'त्ति वचनव्यत्ययाद्विमोचयति, एवं सर्वत्र ॥ तथा पुत्रविषयः शोकः पुत्रशोकः, हा ! कथमित्थं | दुःखी मत्सुतो जात इत्यादिरूपस्ततो दुःखं तेन 'अट्टिय'त्ति आर्त्ता 'अद्दिय'त्ति वा 'अर्दिता' उभयत्र पीडितेत्यर्थः,
Jain Education International
For Personal & Private Use Only
महानिर्य
न्धीया०
२०
॥४७५।।
www.jainelibrary.org