________________
युर्मोहवर्जाः, निर्ग्रन्थस्त्वेकमेव सातं,स्नातकोऽप्येवमबन्धको वा २२ । द्वारं । 'उदयंति कर्मोदयः, पुलाकबकुशप्रतिसे
वककषायकुशीला अष्टविधमपि कर्म वेदयन्ते,निर्ग्रन्थो मोहवर्जाः सप्त, स्नातको वेद्यायुर्नामगोत्राख्याश्चतस्रः२३॥ द्वार। Hai 'कम्मोदीरण'त्ति पुलाक आयुर्वेदनीयवर्जाः पट् कर्मप्रकृतीरुदीरयति, बकुशप्रतिसेवकावष्टावायुर्वर्जाः सप्त षडू | आयुर्वेदनीयवाः , कषायकुशीलोऽप्येवमष्टी सप्त षड् वेद्यायुमोहनीयवजाः पञ्च वा, निग्रेन्थोऽप्येता एव पञ्च द्वे वा नामगोत्राख्ये, स्नातकस्त्वते एव द्वे अनुदीरको वा २४ । द्वारं । 'उवसंपजहण'त्ति उवसंपदनम्-उपसम्पदअन्यरूपप्रतिपत्तिः, सा च हानं च-खरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां त्यजस्तां परित्यजति कषा-| यकुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः ?-न रूपान्तरापत्तिं विना पूर्वरूपपरित्यागो नापि तत्परित्यागं विना है।
तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः, एवं सर्वत्र भावनीयं, बकुशोऽपि बकुशतां त्यजन् तां परित्यजति प्रति६ सेवकत्वं कपायकुशीलत्वमसंयमं संयमासंयमं वोपसंपद्यते, प्रतिसेवनाकुशीलः प्रतिसेवनाकुशीलत्वं त्यजस्तत्परि-18 । त्यजति वकुशत्वं कषायकुशीलत्वमसंयमं संयमासंयमं वोपसम्पद्यते, कषायकुशीलः कषायकुशीलत्वं त्यजंस्तत्परि
त्यजति पुलाकादित्रयं निर्ग्रन्थत्वमसंयम संयमासंयम वोपसम्पद्यते, निर्ग्रन्थो निर्ग्रन्थत्वं त्यजंस्तत्परित्यजति कषायदकुशीलत्वं स्नातकत्वमसंयमं वोपसम्पद्यते, स्नातकः स्नातकत्वं त्यजंस्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते २५ । द्वार। ४
'सन्न'त्ति सज्ञा, तत्र पुलाकनिर्ग्रन्थस्नातका नोसज्ञोपयुक्ताः, बकुशप्रतिसेवककषायकुशीलाः सज्ञोपयुक्ता नो
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org