SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ RANCLOSECREASOMust पुलाकः पुलाकस्स चरित्रपर्यायैः स्याद्धीनस्तुल्योऽधिको वा, तत्र हीनोऽधिको वा भवन्ननन्तासङ्खयसङ्खयेयभागसङ्ख्यातासङ्ख्यातानन्तगुणलक्षणेन पटूस्थानकेन स्यात् ,एवं बकुशप्रतिसेवककषायकुशीला अपि खस्थानहीनाधिकचिन्ताया : पटस्थानपतिता एव,निर्ग्रन्थस्नातकौ तु खस्थानचिन्तायां तुल्यावेव, परस्थानसन्निकर्षेचिन्तायां पुलाको बकुशप्रतिसेवकनिर्ग्रन्थस्नातकेभ्यश्चरित्रपर्यायैरनन्तगुणहीनो न तु तुल्योऽधिको वा, कषायकुशीलापेक्षया पट्रस्थानपतितः, तथा चागमः-"पुलाए णं भंते ! बउसस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुले अब्भहिए?, गोयमा! हीणे णो तुल्ले णो अब्भहिए, अणंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेण समं छट्ठाणवडिए, जहेव सहाण|णियंठस्स, जहा बउसस्स एवं सिणायस्सवि" केचित्तु प्रतिसेवनाकुशीलापेक्षयापि षट्रस्थानपतित इत्याहुः, बकुशः पुलाकापेक्षया चरित्रपर्यायैरनन्तगुणाधिकः प्रतिसेवककषायकुशीलौ तु प्रति षट्रस्थानपतितः निम्रन्थस्नातकाभ्यामनन्तगुणहीनः, एवं प्रतिसेवककषायकुशीलयोरपि परस्थानसंनिकर्षो वाच्यो नवरं कषायकुशीलः पुलाकापेक्षया षट्स्थानपतितः, निर्ग्रन्थस्नातकौ पुलाकाद्यपेक्षयाऽनन्तगणाधिकाविति १६। द्वारं। 'जोग'त्ति पुलाकादीनां निर्ग्रन्थावसानानां मनोवाक्कायास्त्रयोऽपि योगाः स्युः, स्नातकः सयोगोऽयोगो वा स्यात् १७ । द्वारं । 'उवओग'त्ति, पुलाकादयश्चत्वारो मतिश्रुतावधिमनःपर्यायभेदतश्चतुर्भेदे साकारोपयोगे चारचक्षुरवधिविकल्पतस्त्रिविधे चानाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनाख्ययोयोरेव १८॥ द्वारं । 'कसाय'त्ति पुलाकबकुशप्रतिसेवकाः संज्वलनकपायैश्चतुःकषायाः dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy