________________
SSTOCOCOCCARROCHECCCCC
|तु कः कुत्र वर्तते इति क्षुल्लकनिम्रन्थीय एवोक्तत्वान्न पुनरुच्यते ७ । द्वारं । 'तित्थ'त्ति इह च 'तीर्थ' यत्तीर्थकरेणी क्रियते, पुलाको वकुशप्रतिसेवकौ च तीर्थे, कषायकुशीलस्तु तीर्थेऽतीर्थे वा, अतीर्थे च भवन् तीर्थकरो वा स्यात् ।। प्रत्येकवुद्धो वा, एवं निर्ग्रन्थस्नातकावपि ८। द्वारं। 'लिंगिति लिङ्गं द्विधा-द्रव्यभावभेदात् , तत्रामी द्रव्यतः खलिङ्गे 3 अन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु खलिङ्ग एव ९। द्वारं । 'सरीरे 'त्ति पुलाकस्त्रिध्वौदारिकतैजसकार्मणेषु, बकुशप्रतिसेवनाकुशीलौ त्रिषु चतुर्पु वा, वैक्रियस्यापि तयो संभवात् , कषायकुशीलोऽप्येवं पञ्चसु च, तस्याहारकेऽपि
सम्भवात् , निर्ग्रन्थः स्नातकश्च पुलाकवत् १० । द्वारं। 'खेत्त'त्ति क्षेत्रं कर्मभूम्यादि, तत्र जन्म सद्भावं च प्रतीत्य पञ्चा६) प्यमी कर्मभूमावेव स्युः, यथासम्भवं च संहरणं प्रतीत्य कर्मभूमावकर्मभूमौ वा ११ । द्वारं । 'कालोत्ति कालतः पञ्चापि |
पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुषमदुष्षमादुष्षमसुषमादुष्षमाभिधानेषु कालेषु स्यः, उत्सर्पिण्यां दुष्पमसुषमासुषमदुष्षमयोः, इदं च भरतैरावतदशके, विदेहपञ्चकेषु चतुर्थकालप्रतिभागे यथासम्भवं संहरणं प्रतीत्य यथोतादन्यत्रापि काले स्युः, प्रज्ञत्यभिप्रायस्त्वयं-जन्मतः सद्भावतश्च पुलाकोऽवसर्पिण्यां सुषमदुष्पमदुष्पमसुषमाकाले च, | न त शेषेषु. उत्सर्पिण्यां जन्मतो दुष्पमायां दुष्षमासुषमायां सुषमादुष्षमायां, सद्भावतश्च दुष्षमासुषमायां सुषमादुष्प-13 |मायां चेति भरतैरावतयोः, महाविदेहे तु चतुर्थप्रतिभागे पञ्चापि सर्वदैव स्युः, यथासम्भवं संहरणतो न कदाचिन्निषिध्यन्ते, नवरं तत्पुलाकस्य नास्ति,लातकादीनां तु पूर्वसंहृतत्वेन तत्संभवः, उक्तं हि-“पुलागलद्धीए वट्टमाणो ण सक्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org