________________
उत्तराध्य.
बृहद्वृत्तिः
॥४६७॥
स्नातकोऽपि, नवरमयं क्षीणकषायवीतराग एव ३ । द्वारं । ' कप्पो'त्ति 'कल्पः' स्थितास्थितकल्पो जिनकल्पादिर्वा, तत एव पुलाकादयः किं स्थितकल्पेऽस्थितकल्पे वा ?, द्वयोरपि स्युः, स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः स्थविरकल्पे जिनकल्पे वा, न तु कल्पातीतः, तथा चागमः - "पुलाए णं भंते ! किं जिणकप्पे होजा ? थेरकप्पे होज्जा ? कप्पाईए होजा १, गोयमा ! जिणकप्पे वा होजा थेरकप्पे वा होज्जा णो कप्पातीते होज "त्ति, अन्ये त्वाहु:| स्थविरकल्प एवेति, वकुशप्रतिसेवनाकुशीलावपि जिनकल्पे स्थविरकल्पे वा, न तु कल्पातीतौ, कषायकुशील स्त्रिष्वपि स्यात्, निर्ग्रन्थस्नातकौ कल्पातीतावपि ४ । द्वारं । 'चरित' मिति पुलाकबकुशप्रतिसेवना कुशीलाः सामायिकच्छेदोपस्थापनीययोः, कषायकुशीलश्चैतयोः परिहारविशुद्धिसूक्ष्मसंपराययोश्च निर्ग्रन्थो यथाख्यात एव, एवं स्नातकोऽपि ५ । द्वारं । 'पडिसेवण'त्ति, पुलाकः प्रतिसेवको नाप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामन्यतमविराधनात एव भवति, बकुशोऽपि प्रतिसेवक एव, नवरमुत्तरगुणविराधनातः, प्रतिसेवनाकुशीलः पुलाकवत् कषायकुशीलनिर्ग्रन्थस्नातका अप्रतिसेवका एव ६ । द्वारं । 'णाण'त्ति, पुलाकबकुशप्रतिसेवका द्वयो ज्ञानयोस्त्रिषु वा तत्र द्वयोर्मतिश्रुतयोस्त्रिषु मतिश्रुतावधिषु, इह च पुलाकस्य श्रुतं नवमपूर्वतृतीयाचारवस्तुन आरभ्य यावन्नव पूर्वाणि पूर्णानि, उक्तं हि "आरतो परओ वा न लद्धी लभइ" कपायकुशीलो द्वयोस्त्रिषु चतुर्षु वा, तत्र द्वयोर्मतिश्रुतयोस्त्रिषु मतिश्रुतावधिषु मतिश्रुतमनः पर्यायेषु (वा चतुर्षु) मतिश्रुतावधिमनः पर्यायेषु, निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव, श्रुतज्ञाने १
Jain Education International
For Personal & Private Use Only
महानिर्य
न्थीया०
२०
॥४६७॥
www.jainelibrary.org