SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ वर्या-मृगाश्रयभूस्ताम् । अनेन च सूत्रपञ्चकेन दृष्टान्त उक्तः, उत्तरेण सूत्रद्वयेनात्मन्येतदुपसंहारः, इह च एव मिति २ मृगवत्समुत्थितः-संयमानुष्ठानं प्रत्युद्यतस्तथाविधाऽऽतकोत्पत्तावपि न कश्चित् चिकित्साऽभिमुख इति भावः, एवमेव' | मृगवदेव 'अणेगय'त्ति अनेकगो यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवास्ते किन्तु कदाचित्वचिदेवमेषोऽप्यनियतस्थानस्थतया, पठ्यते च-'अणिएयणे'त्ति अनिकेतनः' अगृहः,स चैवं मृगचर्या चरित्वा मृगवदातङ्काभावे भक्तपानार्थं गोचरं । गत्वा तल्लन्धभक्तपानोपष्टम्भतश्च विशिष्ट सम्यग्ज्ञानादिभावतः शुक्लध्यानारोहणादपगताशेषकर्माश ऊर्द्व दिशमिति सम्बन्धः प्रकर्षण कामति-गच्छति प्रक्रामति, किमुक्तं भवति ?-सर्वोपरिस्थानस्थितो भवति, निवृत इतियावत् , ४ एवं च नितिरेवेह मृगचर्योपमार्थत उक्ता, तत्र हि मृगोपमा मुनय इत इतश्चाप्रतिबद्धविहारितया विहृत्य गच्छन्तीति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः 'एग'त्ति 'एकः' अद्वितीयः 'अनेकचारी' नैकत्रैव भक्तपानार्थ चर तीत्येवंशीलः, 'अनेकवासः' नैकत्र वासः-अवस्थानमस्यास्तीति, 'ध्रुवगोचरश्च' सर्वदा गोचरलब्धमेवाहारमाहार६ यतीति, ‘एवं' मृगवदेकत्वादिविशेषणविशिष्टो मुनिः ‘गोची' भिक्षाटनं प्रविष्टो न 'हीलयेद्' अवजानीयात् कद शनादीति गम्यते, नापि च 'खिसएजत्ति निन्देत्तथाविधाहाराप्राप्ती खं परं वा । इह च मृगपक्षिणामुभयेषामुपक्षेपे यन्मृगस्यैव पुनः पुनदृष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्राष्टकार्थः ॥ एवं मृगचर्यास्वरूपमुक्त्वा यत्तेनोक्तं यच पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवांस्तदाह dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy