________________
उत्तराध्य.
बृहद्वृत्तिः
॥४६१॥
| पठ्यते च - महालयाः - महत्यः, 'भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वैतान्यत्यन्त भयोत्पादनायोक्तानि, | इह च वेदना इति प्रक्रमः ॥ कथं पुनस्तस्यास्तीत्रादिरूपत्वमित्याशङ्कय 'जारिसे' त्यादिना इहत्यवेदनापेक्षया नरक - दुःखवेदनाया अनन्तगुणत्वमाह, 'वेयण'त्ति प्रक्रमाद् दुःखवेदना ॥ न केवलं नरक एव दुःखवेदना मयाऽनुभूता किन्तु सर्वाखपि गतिष्विति पुनर्निगमनद्वारेणाह - 'सवे' त्यादिना, इह च 'असाता' दुःखरूपा निमेषः - अक्षिनिमीलनं | तस्यान्तरं - व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि तत्परिमाणमपि कालमिति शेषः 'यद्' इति यस्मात् 'साता' सुखरूपा नास्ति वेदना, तत्त्वतो वैषयिकसुखमसुखमेव, ईर्ष्याद्यनेकदुःखानुविद्धत्वाद्विपाकदारुणत्वाच्च ॥ सर्वस्य चास्य प्रकरणस्यायमाशयः - य एवमहं निमेषान्तरमात्रमपि कालं न सुखं लब्धवान् स कथं तत्त्वतः सुखो| चितः सुकुमारो वेति शक्यते वक्तुं ?, येन च नरकेष्वत्युष्णशीतादयो महावेदना अनेकशः सोढास्तस्य महाव्रतपालनं | क्षुदादिसहनं वा कथमिव बाधाविधायि?, तत्त्वतस्तस्य परमानन्दहेतुत्वात् तत्प्रत्रज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सूत्रावयवार्थः ॥ तत्रैवमुक्त्वोपरते
Jain Education International
तंतिऽम्मापियरो, छंदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥ ७५ ॥ 'तं' मृगापुत्रं ब्रूतोऽस्वापितरौ छन्दः - अभिप्रायस्तेन स्वकीयेनेति गम्यते, किमुक्तं भवति ? - यथाऽभिरुचितं पुत्र !
For Personal & Private Use Only
मृगापुत्री
या० १९
॥४६१॥
www.jainelibrary.org