SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्येनादयस्तैर्जालैः-तथाविधबन्धनैः 'लेप्पाहिति लेपैर्वज्रलेपादिभिः श्लेषद्रव्यैः 'सउणोविव'त्ति 'शकुन इव' पक्षीव । गृहीतो विदंशकैर्जालैश्च लग्नश्च 'श्लिष्टो' लेपद्रव्यैर्वद्धः, तैर्जालैश्च, मारितश्च सर्वैरपि, 'कुट्टितः' सूक्ष्मखण्डीकृतः पाटि-3 तश्छिन्नश्च प्राग्वत् ,तक्षितश्च त्वगपनयनतो दुम इवेति सर्वत्र योज्यं॥'चवेडमुट्ठिमाईहिं ति चपेटामुष्ट्या तैरेव 'कुमारैः' अयस्कारैः 'अयं पिव'त्ति अय इव धनादिभिरिति गम्यते 'ताडितः' आहतः 'कुट्टितः' इह छिन्नः ६ भिन्नः' खण्डीकृतः 'चूर्णितः' श्लक्ष्णीकृतः प्रक्रमात्परमाधार्मिकैः तप्तताम्रादीनि वैक्रियाणि पृथव्यनुभावभूतानि ४ वा 'कलकलंत'त्ति अतिक्वाथतः कलकलशब्दं कुर्वन्ति॥ तव प्रियाणि मांसानि खण्डरूपाणि 'सोल्लगाणि'त्ति भडित्रीकृतानि स्मारयित्वेति शेषः,खमांसानि मच्छरीरादेवोत्कृत्योत्कृत्य ढौकितानि 'अग्निवर्णानि' अतितप्ततयाऽग्निच्छायानि सुरादीनि मद्यविशेषणरूपाणि, इहापि स्मारयित्वेति शेषः, 'पजितोमि'त्ति पायितोऽस्मि 'जलंतीओ'त्ति ज्वलन्तीरिव ज्वलन्तीरत्युष्णतया वशा रुधिराणि च,ज्वलन्तीति लिङ्गविपरिणामेन सम्बन्धनीयम् ॥ णिच्च' मित्यादि, नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम् ,अत्र च 'भीतेन' उत्पन्नसाध्वसेन तथा 'त्रसी उद्वेगे' 'त्रस्तेन' उद्विग्नेनात एव 'दुःखितेन' संजातविविधदुःखेन 'व्यथितेन च' कम्पमानसकलाङ्गोपाङ्गतया चलितेन,दुःखसंबद्धेति वेदनाविशेषणं सुखसम्बन्धिन्या । अपि वेदनायाः सम्भवाद्, 'वेदिते'ति चानुभूता, तीव्रा अनुभागतोऽत एव चण्डाः-उत्कटाः प्रगाढाः-गुरु-15 * स्थितिकास्तत एव 'घोराः' रौद्राः 'अतिदुस्सहाः' अत्यन्तदुरध्यासास्तत एव च महद्भयं यकाभ्यस्ता महाभयाः, dain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy