SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ कानावरणादिभिः 'पापकर्मा' पापानुष्ठानः॥ 'कूवंतो'त्ति कूजन् 'कोलसुणएहिंति सूकरखरूपधारिभिः श्यामैः शवलैश्च | ४/परमाधार्मिकविशेषैः 'पातितो' भुवि ‘फाटितो' जीर्णवस्त्रवत् 'छिन्नो' वृक्षवदुभयदंष्ट्रादिभिरिति गम्यते 'विस्फुरन्' इतस्ततश्चलन् 'अरसाहिति प्रहरणविशेषैः, पठ्यते च-'असीहिंति 'असिभिः' खङ्गैः अत एव 'अतसी'त्यतसीपुष्पं ४ तद्वर्णाभिः-कृष्णाभिः 'पट्टिशैश्च' प्रहरणविशेषैः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः, . यद्वा छिन्नः' ऊ भिन्नः' तिर्यग् 'विभिन्नः' विविधप्रकारैरुद्ध तिर्यक्च अवतीर्णो नरक इति गम्यते,पापकर्मणेति हेतुदर्शनं पापानुष्ठानपरिहार्यताख्यापनार्थम् । 'लोहरथे' लोहमयशकटे 'जुत्तो'त्ति युजेरन्त वितण्यर्थत्वाद्योजितः परमाधार्मिकैरिति सर्वत्र गम्यते, 'ज्वलति' दीप्यमाने, कदाचिद्दाहभीत्या ततो नश्येदपीत्याह-समिलोपलक्षितं युगं यस्मिन् स तथा तत्र समिलायुते वा, पाठान्तरतश्च ज्वलत्समिलायुगे, 'चोइओत्ति प्रेरितः 'तोत्रयोरैः' प्राज|नकबन्धनविशेषैमाघटनाहननाभ्यामिति गम्यते, 'रोज्झः' पशुविशेषः 'वा' समुच्चये भिन्नक्रमः 'यथा' औपम्ये ततो रोज्झवत्पातितो वा लकुटादिपिट्टनेनेति गम्यते,हुताशने ज्वलति,केत्याह-'चितासु' परमाधार्मिकनिर्मितेन्धनसञ्चयरूपासु 'महिसो विवत्ति, 'पिव मिव विव वा इवार्थे' इति वचनात् , महिष इव 'दग्धः' भस्मसात्कृतः 'पक्कः | भटित्रीकृतः 'पावितो'त्ति पापमस्यास्तीति भूनि मत्वर्थीयष्ठक् पापिकः 'बलात्' हठात् संदंशः-प्रतीतस्तदाकृतीनि तुण्डानि-मुखानि येषां ते संदंशतुण्डास्तैः, तथा लोहवनिष्ठुरतया तुण्डानि येषां तैर्लाहतुण्डैः 'पक्खिहिं'ति पक्षि Jain Education.in For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy