SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ सूत्रषङ्कं प्रकटार्थमेव केवलमत्र प्रथमसूत्रेण दृष्टान्त उक्तः, अत्र च 'अध्वानं' मार्ग पथि साधु पाथेयं - सम्बलकं तद्यस्याविद्यमानं सोऽपाथेयः 'प्रपद्यते' अङ्गीकुरुते क्षुत्तृष्णापीडितत्वं चेह दुःखित्वभवने हेतुः । द्वितीयसूत्रेण | दार्शन्तिकोपदर्शनं, व्याधिरोगपीडितत्वं चात्र दुःखित्वभवने निमित्तं, दारिद्र्यादिपीडोपलक्षणं चैतत् । उत्तरसूत्रद्वयेन चैतत्सूत्रद्वयोक्तस्यैवार्थस्य व्यतिरेक उक्तः, तत्र सुखित्वे हेतुः क्षुत्तृष्णाविवर्जितत्वमुक्तम् । 'धर्म' पापविरतिरूपम् 'अपिः' पूरणे 'कृत्वा' विधाय गच्छन्नुपलक्षणत्वाद्गतश्च 'सः' इति धर्मकर्त्ता प्रक्रमात्पाथेयोपमधर्मसहितः सुखी भवति, सुखित्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च अत्र च प्रस्तावात्कर्म पापं वेदना चासातरूपा गृह्यते, अनेन धर्म| कर्मकरणाकरणयोर्गुणदोषदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः । 'जहे' त्यादिना च सूत्रद्वयेन तमेव दृढयति, अत्र च यथा | सारभाण्डानि - महामूल्य वस्त्रादीनि 'णीणेइति निष्काशयति 'असारं' जरद्वस्त्रादि 'अवउज्झइ 'त्ति अपोहति -त्यजति, एवं 'लोके' जगति 'पलित्तंमित्ति प्रदीप्त इव प्रदीप्ते अत्याकुलीकृते 'आत्मानं' सारभाण्डतुल्यं 'तारयिष्यामि' जरामरणप्रदीप्तलोकपारं नेष्यामि, धर्मकरणेनेति प्रक्रमः, असारं तु कामभोगादि त्यक्ष्यामीति भावः, अनेन धर्मकरणे विलम्बासहिष्णुत्वमुक्तं युष्माभिरिति द्वित्वेऽपि पूज्यत्वाद् बहुवचनम्, 'अणुमन्निओ 'त्ति अनुमतः - अभ्यनुज्ञात इति सूत्रषङ्कावयवार्थः ॥ एवं च तेनोक्ते तिम्मापियरो, सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्साणि, धारेयव्वाई भिक्खुणा ॥ २४ ॥ समया Jain Education onal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy