________________
उत्तराध्या
मृगापुत्री
या०१९
18 मरणग्रस्ते' वार्द्धक्यमृत्युक्रोडीकृते, अनेन मानुषत्वासारत्वमेव भावितं, क्षणमपि 'न रमे' नाभिरतिं लभेऽहमिति ।
इत्थं मनुष्यभवस्यानुभूयमानत्वेन निर्वेदहेतुत्वमभिधाय सम्प्रति चतुर्गतिकस्यापि संसारस्य तदाह-'जम्म'मित्यादिना, बृहद्वृत्तिः
अत्र च अहो इति सम्बोधने 'दुक्खो हुत्ति दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात्तस्य 'यत्र' यस्मिन् गतिचतु॥४५४ ष्टयात्मके संसारे 'क्लिश्यन्ति' बाधामनुभवन्ति, जन्मादिदुःखैरेवेति गम्यते, 'जन्तवः' प्राणिनः, इह च दुःखानुभ
वाधारत्वेन संसारस्य दुःखहेतुत्वमिति भावः । तथा 'खेत्त'मित्यादिनेष्टवियोगोऽशरणत्वं च संसारान्निदहेतुरुक्तः, तथा किम्पाको-वृक्षविशेषस्तस्य फलान्यतीव सुखादानि, अनेन चोपसंहारसूत्रेणोदाहरणान्तरद्वारेण भोगदुरन्ततैव निर्वेदहेतुरुक्ता इति सूत्रचतुष्टयावयवार्थः॥ इत्थं निर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः खाभिप्रायमेव प्रकटयितुमाह| अद्धाणं जो महंतं तु, अपाहे जो पवजई । गच्छंतो से दुही होइ, छुहातण्हाइपीडिओ ॥१८॥ एवं धम्म । अकाऊणं, जो गच्छइ परं भवं । गच्छंतो से दुही होई, वाहिरोगेहिं पीडिओ॥ १९॥ अद्धाणं जो महंतं तु, सपाहेजो पवजई । गच्छंती से सुही होइ, छुहातण्हाविवजिओ॥२०॥ एवं धम्मंपिकाऊणं, जो गच्छइ परं भवं । गच्छंते से सुही होह, अप्पकम्मे अवेयणे ॥ २१॥ जहा गेहे पलितंमि, तस्स गेहस्स जो पहू । सारभंडाणि नीणेह, असारं अवउज्झइ ॥ २२॥ एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारहस्सामि, तुम्भेहिं अणुमनिओ॥ २३ ॥
॥४५४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org