________________
वस्थितत्वेऽप्यनित्य आवासः-प्रक्रमाजीवस्यावस्थानं यस्मिन्नित्यशाश्वतावासं, पुनः 'इदमि'यभिधानमतीवासार8/त्वावेशसूचकं, दुःखम्-असातं तद्धेतवः क्लेशाः-ज्वरादयो रोगा दुःखक्लेशाः शाकपार्थिवादिवत्समासस्तेषां 'भाजन' है स्थानं, यतश्चैवमतोऽशाश्वते शरीरे रतिं' चित्तखास्थ्यं 'नोपलभे' न प्राप्नोम्यहं, भोगेषु सत्खपीति गम्यते, शरीरा
श्रयत्वात्तेषामिति भावः, शरीराशाश्वतत्वमेवाह-पश्चात्पुरा वा त्यक्तव्ये शरीरे इति प्रक्रमः, तद्धि पश्चादिति भुक्तभोगावस्थायां वाईक्यादौ, पुरा अभुक्तभोगितायां वा बाल्यादौ त्यज्यत इति, यद्वा पश्चादिति-यथास्थित्यायुःक्षयो-11 त्तरकालं पुरा वेत्युपक्रमहेतोर्वर्षशताद्यासंकलितजीवितप्रमाणात्प्रागपि 'त्यक्तव्ये' अवश्यत्याज्ये 'फेनबुद्धदसंनिभे क्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुत्त्यमिति सूत्रत्रयार्थः ॥ एवं भोगनिमन्त्रणपरिहारमभि-18 धाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह| माणुसत्ते असारंमि, वाहीरोगाण आलए । जरामरणघत्थंमि, खणंपि न रमामहं ॥ १४ ॥ जम्म दुक्खं । जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥१५॥ खित्तं वत्थु हिरणं च, पुत्तदारं च बंधवा । चइत्ता ण इमं देहं, गंतव्वमवसस्स मे ॥ १६ ॥ जह किंपागफलाणं, परिणामो न सुंदरो।एवं भुत्ताण भोगाणं, परिणामो न सुंदरो॥१७॥
सूत्रचतुष्टयं स्पष्टं, नवरं व्याधयः-अतीव बाधाहेतवः कुष्ठादयो रोगाः-ज्वरादयस्तेषाम् 'आलये' आश्रये 'जरा-81
Jain Education
www.jainelibrary.org
For Personal & Private Use Only
emasonal