________________
'च' पुनरर्थः 'अम्मापियति अम्मा(म्बा)पितरौ 'उपागम्य' उपसृत्य 'इदम्' अनन्तरवक्ष्यमाणं वचनम् 'अब्रवीत्' इत्याह, इति सूत्रार्थः ॥ किं तदब्रवीदित्याह
सुआणि मे पंच महव्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु।
निविणकामो मि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो!॥१०॥ 'श्रुतानि' आकर्णितानि, अन्यजन्मनीत्यभिप्रायः, 'मे' मया 'पञ्च' इति पञ्चसङ्ख्यानि 'महाव्रतानि' हिंसाविरमकणादीनि, तथा नरकेषु 'दुःखं च' असातमिहैव वक्ष्यमाणं 'तिरिक्खजोणिसुत्ति चशब्दस्याप्रयुज्यमानस्यापि "अह
रहर्नयमानो गामश्चं पुरुषं पशुम्" इत्यादाविव गम्यमानत्वात् तिर्यग्योनिषु च, सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किमित्याह-णिविण्णकामोमि'त्ति 'निर्विण्णकामः' प्रतिनिवृत्ताभिलाषोऽस्म्यहं, कुतः ?-महार्णव इव महार्णवः-संसारस्तस्माद्, यतश्चैवमतः 'अनुजानीत' अनुमन्यध्वं, मामिति शेषः, 'पवइस्सामीति प्रव्रजिष्यामि 'अम्मो'त्ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच मातुरामत्रणं, यो हि भविष्यदुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न र दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्यां प्रतिपत्स्य इति सूत्रगर्भार्थः ॥ अमुमेवार्थमनुवादतः स्पष्टयितुमाह
नियुक्तिकृत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org