________________
+ACCOREOSSOCIEDOXX
ग्रहात्मकः संयमश्च-उक्तरूपस्तान् धारयति तपोनियमसंयमधरस्तम् , अत एव शीलम्-अष्टादशशीलाइसहस्ररूपं तेनाढ्यं-परिपूर्ण शीलाढ्यं, तत एव च गुणानां-ज्ञानादीनामाकर इव गुणाकरस्तं ॥ 'तमिति श्रमणसंयतं 'पेहइत्ति पश्यति 'मृगापुत्रः' युवराजः ‘दृष्टया' दृशा 'अणमिसाइ उत्ति तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेपयैव, व 'मन्ये' जाने 'ईदृशम्' एवंविधं 'रूपम्' आकारो दृष्टपूर्वम्-अवलोकितं मया 'पुरा' इति पूर्वजन्मनि ?, शेषं प्रतीतमेव, नव-21
रम् 'अध्यवसाने' इत्यन्तःकरणपरिणामे 'शोभने' प्रधाने क्षायोपशमिकभाववर्तिनीतियावत् 'मोह' केदं मया दृष्टं है वेदमित्यतिचिन्तातश्चित्तसङ्घजमूर्छात्मकं 'गतस्य' प्राप्तस्य सतः॥ तथा 'सरति'त्ति स्मरति पौराणिकी 'जाति' जन्म
श्रामण्यं च' श्रमणभावं 'पुराकृतं' जन्मान्तरानुष्ठितमिति सूत्रचतुष्टयार्थः ॥ एतदेवातिस्पष्टताहेतोरनुगदितुमाह । नियुक्तिकृत्सुग्गीवे नयरंमिअराया नामेण आसि बलभदो। तस्सासि अग्गमहिसी देवी उ मिगावई नामं ॥४०७॥ तेसिं दुण्हवि पुत्तो आसी नामेण बलसिरी धीमं । वयरोसभसंघयणो जुवराया चरमभवधारी ॥४०८॥ 8 उन्नंदमाणहिअओ पासाए नंदणंमि सो रम्मे । किलई पमदासहिओ देवो दुगुंदगो चेव ॥ ४०९ ॥ अह अन्नया कयाई पासायतलंमि सो ठिओ संतो । आलोएइ पुरवरे रुंदे मग्गे गुणसमग्गे ॥ ४१०॥
Jain Education UK
For Personal & Private Use Only
www.jainelibrary.org