SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ दीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन्, यद्वा अनार्त्ता - सकलदोषविगमतोऽवाधिता कीर्त्तिरस्येत्यनार्त्त - कीर्त्तिः सन्, पठ्यते च 'आणट्ठा कि पवई' त्ति, आज्ञा - आगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो - हेतुरस्याः सा तथाविधा आकृतिरर्थान्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्रात्राजीगुणैः - राज्यगुणैः शब्दादि - - भिर्वा समृद्ध - संपन्नं गुणसमृद्धं, पूर्वत्र तुशब्दस्यापिशब्दार्थत्वाद्यवहितसम्बन्धत्वाच्च गुणसमृद्धमपि । तथा 'अहाय'त्ति आर्यत्वाद् 'आदित' गृहीतवांस्तद्गमनेन स्वीकृतवान् शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, 'शिरं 'ति शिर इव शिरः सर्वजगदुपरिवर्त्तितया मोक्षः, पठ्यते च - 'आदाय सिरसो सिरिं'ति, अत्र च 'आदाय' गृहीत्वा 'शिरः श्रियं' सर्वोत्तमां केवललक्ष्मीं परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः ॥ इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्टुमाह कहं धीरो अहेऊहिं, उम्मत्तो व्व महिं चरे ? । एए विसेसमादाय, सूरा दढपरक्कमा ॥ ५१ ॥ 'कथं ' केन प्रकारेण 'धीरः' उक्तरूपः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत | इव तात्त्विक वस्त्वपलपनेनालजालभाषितया 'महीं' पृथ्वी 'चरेत्' भ्रमेत् ?, नैव चरेदित्यर्थः किमिति १, ये 'एते' | अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा मनसि संप्रधार्येतियावत् शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः, अयमभिप्रायः - यथैते महात्मानो विशेषमादाय Jain Education heational For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy