SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education विरत्यात्मकेनोत्तराः - प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि वहिष्कृताः सर्वथाऽचारित्रिणश्चेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु १, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह - ' अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तम देश विरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्ण संयमत्वात्तेषां तथा च वृद्धसम्प्रदायः - एगो सावगो साहुं पुच्छति - सावगाणं साहूणं किमंतरं ?, साहुणा भण्णतिसरिसवमंदरं तरं ततो सो आउलीहूओ पुणो पुच्छति - कुलिंगीणं सावगाण य किमंतरं ?, तेण भण्णति-तदेव सरिसबमंदरंतरंति, ततो समासासितो, जतो भणियं - " देसेकदेसविरया समणाणं सावगा सुविहियाणं । जेसिं परपा| संडा सतिमंपि कलं न अग्घंति ॥ १ ॥” तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः ॥ २० ॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः, अत आह— चीराजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाइंपि न तायंति, दुस्सीलं परियागतं ॥ २१ ॥ व्याख्या - चीराणि च - चीवराणि अजिनं च - मृगादिचर्म चीराजिनं 'णिगिणिणं ति सूत्रत्वान्नाभ्यं 'जडि'त्ति १ एकः श्रावकः साधुं पृच्छति - श्रावकाणां साधूनां (च) किमन्तरम् ?, साधुना भण्यते - सर्षपमन्दरान्तरम्, ततः स व्याकुलीभूतः पुनः पृच्छति - कुलिङ्गिनां श्रावकाणां च किमन्तरम् ?, तेन भण्यते - तदेव सर्षपमन्दरान्तरमिति, ततः समाश्वस्तः, यतो भणितम् - | देशैकदेशविरताः श्रमणानां श्रावकाः सुविहितानाम् । येषां परपाषण्डाः शतीमपि कलां नार्घन्ति ॥ १ ॥ For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy