SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. निमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनिं दृष्ट्वा संयतीया तद्विमार्थमिदमुक्तवान्-यथा ते 'दृश्यते' अवलोक्यते 'रूपम्' आकृतिः 'प्रसन्नं विकाररहितं 'ते' तव 'तथा'| बृहद्धत्तिः माध्य. १८ तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किंतत् ?-'मनः'चित्तं,न ह्यन्तः कलुषतायां बहिरप्येवं प्रसन्नतासम्भवः, तथा 'किं॥४४२॥ नामा' किमभिधानः 'किंगोत्रः' किमन्वयः 'कस्सट्ठाए वत्ति कस्मै वा 'अर्थाय' प्रयोजनाय 'माहणे'त्ति मा वधी इत्येवंरूपं मनो वाक् क्रिया च यस्यासौ माहनः, सर्वे धातवः पचादिषु दृश्यन्त इति वचनात्पचादित्वादच् , स चैवंहै विधः प्रबजित एव संभवत्यतः किं वा प्रयोजनमुद्दिश्य प्रबजितः, 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे, कान् ?| 'बुद्धान्' आचार्यादीन् , कथं 'विणीय'त्ति 'विनीतः' विनयवानित्युच्यत इति सूत्रद्वयार्थः ॥ सञ्जयमुनिराह| संजओ नाम नामेणं, तहा गुत्तेण गोयमो । गद्दभाली ममायरिया, विजाचरणपारगा ॥ २२॥ यदुक्तं त्वया-किनामा त्वमिति, तत्र सञ्जयो नाम नाम्ना । यच्चावोचः-किंगोत्रः? इति, तत्राह-तथा 'गोत्रेण' अन्वयेन गोतमः, उभयत्राहमिति गम्यते, शेषप्रश्नत्रयप्रतिवचनमाह-गर्दभालयः' गर्दभाल्यभिधाना मम 'आचार्याः' 18| धर्मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या-श्रुतज्ञानं तथा चर्यत इति चरणं-चारित्रं विद्या च चरणं| ॥४४२॥ हाच विद्याचरणे तयोः पारगाः-पर्यन्तगामिनो विद्याचरणपारगाः, एवं च वदतोऽयमाशयः-यथा गर्दैभालिभि-|| धर्माचार्यजविद्यातान्निवर्तितोऽहं, विद्याचरणपारगत्वाच तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थ माहनोऽस्मि, Bain Education Internasional For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy