SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ - IS यथा च तदुपदेशस्तथा गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ॥ इत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह किरियं अकिरिअं विणयं, अन्नाणं च महामुणी!। एएहिं चरहिं ठाणेहि, मेअन्ने किं पभासई ? ॥२३॥ 'क्रिया' अस्तीत्येवंरूपा, लिङ्गव्यत्ययान्नपुंसकनिर्देशः, 'अक्रिया' तद्विपरीता 'विनयः' नमस्कारकरणादिः, लिङ्गव्यत्ययःप्राग्वत्, तथा ज्ञानं-वस्तुतत्त्वावगमस्तदभावोऽज्ञानं, 'चः' समुच्चये, 'महामुने !' सम्यक्प्रव्रज्याप्रतिपत्तिगुरुपरिचर्यादिकरणतः प्रशस्ययते ! एतैः' क्रियादिभिश्चतुर्भिः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि-मिथ्याध्यवसायाधारभूतानि तैः, 'मेयण्णे'त्ति, मीयत इति मेयं-ज्ञेयं जीपादिवस्तु तजानन्तीति मेयज्ञाः क्रियादिभिश्चतुर्भिः स्थानः खखाभिप्रायकल्पितर्वस्तुतत्त्वपरिच्छेदिन इतियावत् , 'किम्' इति कुत्सितं 'पभासई'त्ति प्रकर्षण भाषन्ते प्रभाषन्ते, विचाराक्षमत्वात . तथाहि-ये तावत्क्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि तस्य सदा विभुत्वाविभुत्वकर्तृत्वाकर्तत्वादिभिर्विप्रतिपद्यन्ते, उक्तं हि वाचकैः-क्रियावादिनो नाम येषामात्मनोऽ-2 स्तित्वं प्रत्यविप्रतिपत्तिः, किन्तु स विभुरविभुः कर्ताऽकर्ता क्रियावानितरो मूर्तिमानमूर्तिरित्येवमाद्याग्रहोपहृतप्रीत-3 यस्तेऽस्ति माता पिताऽस्ति न कुशलाकुशलकर्मवैफल्यं न न सन्ति गतय इत्येवंप्रतिज्ञाश्च, इह च विभुत्वं व्यापित्वं, तच्चात्मनो न घटते, शरीर एव तल्लिङ्गभूतचैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्वे 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्मा - - Jain Education M a na For Personal & Private Use Only a.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy