________________
AMROADCASEARCHROADCHOROSEX
अह केसरमुजाणे नामेणं गद्दभालि अणगारो।अप्फोवमंडवंमि अ झायइ झाणं झविअदोसो॥ ३९७ ॥ | अहेति गाथा व्याख्यातप्रायैव, नवरं 'नाम्ना' अभिधानेन गर्दभालि-गर्दभालिनामेत्यर्थः, 'झविय'त्ति क्षपिता दोषाः-कर्माश्रवहेतुभूता हिंसादयो येन स तथा ॥ पुनस्तत्र यदभूत्तदाह
अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥ 'अर्थ' अनन्तरम् 'अश्वगतः' तुरगारूढो राजा 'क्षिप्रं शीघ्रमागत्य 'स' इति सञ्जयनामा 'तस्मिन्' यत्र मण्डपे स भगवान् ध्यायति, 'हतान्' विनाशितान् मृगान् तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः, 'पासित्त'त्ति । | दृष्ट्वा 'अनगारं' साधु 'तत्र' इति तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः ॥ ततः किमसावकाषीदित्याह
अह राया तत्थ संभंतो, अणगारो मणाऽऽहओ। मए उ मंदपुण्णेणं, रसगिद्धेण घंतुणा ॥७॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवो । विणएणं वंदई पाए, भगवं ! इत्थ मे खमे ॥८॥ अह मोणेण सो भगवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयहुओ ॥९॥ संजओ अहमस्सीति, भगवं! वाहिराहि मे । कुद्धे तेएण अणगारे, दहिज्जा नरकोडिओ॥१०॥ . __ अथ राजा 'तत्रे'ति तद्दर्शने सति 'संभ्रान्तः' भयव्याकुलो, यथाऽनगारो-मुनिर्मनागिति-स्तोकेनैव 'आहतः'|| विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन 'रसद्धेन' रसमूर्छितेन 'घंतुण'त्ति घातुकेन हनन-18
Jain Education tha onal
For Personal & Private Use Only
www.jainelibrary.org