________________
उक्तरूपाः 'ज्ञानी' प्रशंसायां मत्वर्थीयोत्पत्तेः प्रशस्तज्ञानवान् समिति-सम्यक् सदनुष्ठानप्रवृत्त्या यमनं-पापस्थानेभ्य उपरमणं संयमश्चारित्रमितियावत्तेन सहितः-युक्तः संयमसहितो ज्ञातव्यो भावतः श्रमण इति गाथात्रयार्थः ॥ सम्प्रति प्रस्तुते योजयन्नाह
जे भावा अकरणिज्जा इहमज्झयणमि वन्निअ जिणेहिं । ते भावे सेवंतो नायवो पावसमणोत्ति ३९० है ये 'भावाः संसक्तापठनशीलतादयोऽर्थाः 'अकरणीयाः' कर्तुमनुचिताः 'इह' प्रस्तुतेऽध्ययने 'वन्निय'त्ति वर्णिताः । |3|प्ररूपिताः 'जिनैः' तीर्थकृद्भिस्तान् भावान् 'सेवमानः' अनुतिष्ठन् 'ज्ञातव्यः' अवबोद्धव्यः पापेन-उक्तरूपेणोपलदक्षितः श्रमणः पापश्रमणः, इतिशब्दः पापश्रमणशब्दस्य खरूपपरामर्शक इति गाथार्थः ॥ एतद्विपरीतास्तु श्रम
णाः, तेषां फलमाहएयाइं पावाइं जे खलु वजंति सुव्वया रिसओ। ते पावकम्ममुक्का सिद्धिमविग्घेण वच्चंति ॥३९१॥ al 'एतानि' एतदध्ययनोक्तानि 'पापानि' पापहेतुभूतानि शयालुतादीनि 'ये' इत्यनिर्दिष्टरूपाः 'खलुः' वाक्या- लङ्कारे 'वर्जयन्ति' परिहरन्ति सुव्रता ऋषयः पूर्ववत् , ते पापं च तत्कर्म च पापकर्म तेन उपलक्षणत्वात्पुण्यकर्मणा च मुक्ताः-त्यक्ताः पापकर्ममुक्ताः 'सिद्धिं' सिद्धिगतिम् 'अविघ्नेन' अन्तरायाभावेन 'वचंति'त्ति 'वजन्ति' गच्छन्तीति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
-RESARKAR IE%
C4%AGA
-
-
en Education
For Personal & Private Use Only
www.jainelibrary.org