________________
णा०१७
उत्तराध्य. वत्ति, इह च पापमिति योज्यते, प्राकृतत्वाचोभयत्र बिन्दुलोपः, तत्र सचित्तद्रव्यपापं–यद्द्विपदचतुष्पदापदेषु । पापश्रमदत्तिःमनुष्यपशुवृक्षादिष्वसुन्दरम् , अचित्तद्रव्यपापं तदेव जीवविप्रयुक्तं चतुरशीतिपापप्रकृतयो वा वक्ष्यमाणाः, मिश्र
द्रव्यपापं तथाविधद्विपदायेवाशुभवस्त्रादियुक्तं तत्शरीराणि वा जीववियुक्तकदेशयुक्तानि, सन्ति हि जीवशरी॥४३१॥
रेष्वपि जीववियुक्ता नखकेशादयस्तदेकदेशाः, उक्तं हि-"तस्सेव देसे चिए तस्सेव देसे अणुवचिए"त्ति, जीवप्रदेशा|पेक्षमेव हि तत्र चितत्वमनुपचितत्वं ब विवक्षितं, पापप्रकृतियुक्तो वा जन्तुरेव मिश्रद्रव्यपापमुच्यते, 'चेवेति प्राग्वत् , क्षेत्रे विचार्ये 'पापं' नरकादिपापप्रकृत्युदयविषयभूतं यत्र तदुदयोऽस्ति, 'काल' इति कालपापं-दुष्प-8 मादिको यत्र कालानुभावतः प्रायः पापोदय एव जन्तूनां जायते, आदिशब्दादन्यत्र वा काले यत्र कस्यचिजन्तोस्तदुदयः, भावे विचारयितुमुपक्रान्ते पापम् इदम्' अनन्तरमेव वक्ष्यमाणं 'हिंस'त्ति हिंसा प्रमत्तयोगात्प्राणव्यपरोपणं 'मृषा' असदभिधानं 'चौर्य च' स्तन्यम् 'अब्रह्म' मैथनं ततः 'परिग्रहः' मूछात्मकः 'अपिः' समुच्चये 'चः' पूरणे ‘गुणाः' सम्यग्दर्शनादयस्तद्विपक्षभूताः अगुणाः-मिथ्यात्वादयो दोषाः, नो विपक्षेऽपि दर्शनादमित्रादिवत् , 'भणिताः' उक्ताः, 'तुः' समुच्चये व्यवहितक्रमश्च, अगुणाश्च ये 'सूत्रे आगमे अन्यत्र इहैव वा प्रस्तुताध्ययने । श्रमणे' धाश्रमणविषयः 'चतुष्कनिक्षेपकः' नामादिः 'तुः' पूरणे नामस्थापने पूर्ववत् , द्रव्ये निह्नवादय एव निवादिकाः |
१ तस्यैव देशश्चितः तस्यैव देशोऽनुपचितः
॥४३१॥
Jain Education in
For Personal & Private Use Only
HINijainelibrary.org