________________
उत्तराध्य.
बृहद्धत्तिः
॥४३२॥
जे केइ उ पव्वइए नियंठे, धम्म सुणित्ता विणओववन्ने ।
पापश्रमसुदुल्लहं लहिउँ बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥
णा०१७ सिजा दढा पाउरणं मि अत्थि, उपजई भुत्तु तहेव पाउं।
जाणामि जं वइ आउसुत्ति:, किं नाम काहामि सुएण भंते!॥२॥ _ 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च-जे के इम'त्ति, तत्र च 'इमेत्ति अयं 'प्रव्रजितः' । निष्क्रान्तः निर्ग्रन्थः प्राग्वत्, कथं पुनरयं प्रबजित इत्याह-'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा' निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मकेनोपपन्नो-युक्तो विनयोपपन्नः सन् ‘सुदुर्लभम्' अतिशयदुष्प्रापं 'लभिउंति लब्ध्या 'बोधिलाभ' जिनप्रणीतधर्मप्राप्तिरूपम् , अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति, स किमित्याह-विहरेत्' चरेत् , | 'पश्चात्' प्रव्रजनोत्तरकालं 'चः' पुनरर्थो विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा |
यथा विकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव विह| रेदित्यर्थः, उक्तं हि-"सीहत्ताए णिक्खंतो सीयालत्ताए विहरति"त्ति, स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाह-शय्या' वसतिः 'दृढा' वातातपजलाधुपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वषोंकल्पादि
१ सिंहतया निष्कान्तः शृगालतया विहरति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org