SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२४७॥ मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनुरूपमेव स्थानं, 'स' इति बालः, 'पश्चादि'त्या-15 अकामयुषि हीयमाने 'परितप्यते' यथा धिङ् मामसदनुष्ठायिनं, किमिदानी मन्दभाग्यः करोमि ? इत्यादि शोचत इति । मरणाध्य. सूत्रार्थः ॥ १३॥ अमुमेवा) दृष्टान्तद्वारेण दृढयन्नाह जहा सागडिओ जाणं, संमं हिचा महापहं । विसमं मग्गमोतिण्णो, अक्खभग्गंमि सोयह ॥१४॥ व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, शक्नोति शक्यते वा धान्यादिकमनेन वोडमिति शकटं तेन चरति शाकटिकः-गवीवाहकः 'जाणं ति जानन्नवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा'त्यक्त्वा, कम् ?-महांश्चासौ। विस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, 'ऋक्पूरब्धूःपथामानक्षे (पा०५-४-७४) इत्यकारः समासान्तस्तं, 'विषमम' उपलादिसङ्कलं 'मार्ग' पन्थानं 'ओतिन्नो'त्ति अवतीर्णः-गन्तुमुपक्रान्तः, पठ्यते च-'ओगाढो'त्ति तत्र चावगाढ आरूढः प्रपन्न इति चैकोऽर्थः, अश्नीते नवनीतादिकमित्यक्षो-धूः तस्य भङ्गो-विनाशः अक्षभङ्गः तस्मिन् , पाठान्तरतश्चाक्षे भग्ने, शोचते यथा धिग् मम परिज्ञानं यजानन्नपीथमपायमवाप्तवानिति सूत्रार्थः ॥ १४ ॥ सम्प्रत्युपनयमाह ॥२४७॥ एवं धम्मं विउक्कम्म, अहम्मं पडिवजिया । बाले मचुमुहं पत्ते, अक्खे भग्गे व सोयइ ॥ १५॥ व्याख्या-'एव'मिति शाकटिकवद् 'धर्म' क्षान्सादिकं यतिधर्म सदाचारात्मकं वा 'विउक्कम्म'त्ति व्युत्क्रम्य For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy